The Word file is available on request for your use. Courtesy of
International/ American Gita Society Gita-Audio अथ श्रीमद्
भगवद्गीता
अथ प्रथमोऽध्यायः 1. अर्जुन विषादयोगः धृतराष्ट्र उवाच --
धर्मक्षेत्रे कुरुक्षेत्रे,
समवेता युयुत्सवः। मामकाः पाण्डवाश्चैव,
किम् अकुर्वत
सञ्जय ।।
1.1 ।। सञ्जय उवाच – दृष्टवा तु पाण्डवानीकं,
व्यूढं दुर्योधनस्
तदा । आचार्यम् उपसंगम्य,
राजा वचनम्
अब्रवीत्
।। 1.2 ।। पश्यैतां पाण्डुपुत्राणाम्,
आचार्य महतीं चमूम् । व्यूढां द्रुपदपुत्रेण,
तव शिष्येण
धीमता ।।
1.3 ।। अत्र शूरा महेष्वासा,
भीमार्जुनसमा
युधि । युयुधानो विराटश्च,
द्रुपदश्च
महारथः
।। 1.4 ।। धृष्टकेतुश् चेकितानः,
काशिराजश्च
वीर्यवान्
। पुरुजित् कुन्तिभोजश्च,
शैब्यश्च
नरपुङ्गवः
।। 1.5 ।। युधामन्युश्च विक्रान्त,
उत्तमौजाश्च
वीर्यवान्
। सौभद्रौ द्रौपदेयाश्च,
सर्व एव महारथाः
।। 1.6 ।। अस्माकं तु विशिष्टा
ये, तान् निबोध द्विजोत्तम
। नायका मम सैन्यस्य, संज्ञार्थ
तान् ब्रवीमि
ते ।। 1.7 ।। भवान् भीष्मश्च
कर्णश्च, कृपश्च समितिञ्जयः
। अश्वत्थामा विकर्णश्च,
सौमदत्तिस्
तथैव च ।।
1.8 ।। अन्ये च बहवः
शूरा, मदर्थे
त्यक्तजीविताः
। नानाशस्त्रप्रहरणाः, सर्वे
युद्धविशारदाः
।। 1.9 ।। अपर्याप्तं तद् अस्माकं, बलं भीष्माभिरक्षितम्
। पर्याप्तं त्विदम्
एतेषां, बलं भीमाभिरक्षितम्
।। 1.10 ।। अयनेषु च सर्वेषु,
यथाभागम्
अवस्थिताः
। भीष्मम् एवाभिरक्षन्तु,
भवन्तः
सर्व एव हि ।। 1.11 ।। तस्य
सञ्जनयन हर्षं, कुरुवृद्धः
पितामहः
। सिंहनादं विनद्योच्चैः,
शङ्खं दध्मौ प्रतापवान्
।। 1.12 ।। ततः शङखाश्च
भेर्यश्च,
पणवानकगोमुखाः
। सहसैवाऽभ्यहन्यन्त, स शब्दस्
तुमुलोऽभवत्
।। 1.13 ।। ततः श्वेतैर्
हयैर् युक्ते, महति स्यन्दने
स्थितौ । माधवाः पाण्डवश्चैव,
दिव्यौ शङ्खौ प्रदध्मतुः
।। 1.14 ।। पाञ्चजन्यं हृषीकेशो,
देवदत्धनञ्जयः
। पौण्ड्रं दध्मौ
महाशङ्खं,
भीमकर्मा
वृकोदरः
।। 1.15 ।। अनन्तविजयं राजा, कुन्तीपुत्रो
युधिष्ठिरः
। नकुलः सहदेवश्च,
सुघोषमणिपुष्पकौ
।। 1.16 ।। काश्यश्च परमेष्वासः,
शिखण्डी
च महारथः
। धृष्टद्युम्नो विराटश्च,
सात्यकिश्चा
अपराजितः
।। 1.17 ।। द्रुपदो द्रौपदेयाश्च,
सर्वशः पृथिवीपते
। सौभद्रश्च महाबाहुः,
शङ्खान् दध्मु पृथक्
पृथक् ।।
1.18 ।। स घोषो धार्तराष्ट्राणां, हृदयानि
व्यदारयत्
। नभश्च पृथिवीं
चैव, तुमुलो
व्यनुनादयन्
।। 1.19 ।। अथ व्यवस्थितान्
दृष्टवान्,
धार्तराष्ट्रान्
कपिध्वजः
। प्रवृते शस्त्रसंपाते,
धनुर् उद्यम्य पाण्डवः
।। 1.20 ।। हृषीकेशं तदा वाक्यम्,
इदम् आह महीपते । अर्जुन
उवाच – सेनयोर् उभयोर्
मध्ये, रथं स्थापय
मेऽच्युत
।। 1.21 ।। यावद् एतान्
निरीक्षेऽहं,
योद्धुकामान्
अवस्थितान्
। कैर् मया
सह योद्धव्यम्,
अस्मिन् रणसमुद्यमे
।। 1.22 ।। योत्स्यमानान् अवेक्षेऽहं,
य एतेऽत्र
समागताः
। धार्तराष्ट्रस्य दुर्बुद्धेर्,
युद्धे प्रियचिकीर्षवः
।। 1.23 ।। सञ्जय उवाच – एवम्
उक्तो हृषीकेशो, गुडाकेशेन
भारत । सेनयोर् उभयोर्
मध्ये, स्थापयित्वा
रथोत्तमम्
।। 1.24 ।। भीष्मद्रोण प्रमुखतः,
सर्वेषां
च महीक्षिताम्
। उवाच पार्थ पश्यैतान्,
समवेतान्
कुरुन्
इति ।। 1.25 ।। तत्रापश्यत् स्थितान्
पार्थः, पितृन् अथ पितामहान्
। आचार्यान् मातुलान्
भ्रातृन्,
पुत्रान्
पौत्रान्
सखींस्
तथा ।। 1.26 ।। शवसुरान् सुहृदश्चैव,
सेनयोर् उभयोर्
अपि । तान् समीक्ष्य
स कौन्तेयः,
सर्वान् बन्धुन् अवस्थितान्
।। 1.27 ।। कृपया
परयाविष्टो,
विषीदन्न
इदम् अब्रवीत्
। अर्जुन
उवाच – दृष्टवेमं स्वजनं
कृष्ण, युयुत्सुं
समुपस्थितम्
।। 1.28 ।। सीदन्ति मम गात्राणि, मुखं च परिशुष्यति
। वेपथुश्च शरीरे
मे, रोमहर्षश्च
जायते ।।
1.29 ।। गाण्डीवं संस्रते
हस्तात्, त्वक् चैव
परिदह्यते
। न च शक्नोम्य अवस्थातुं,
भ्रमतीव
च मे मनः
।। 1.30 ।। निमित्तानि च पश्यामि,
विपरीतानि
केशव । न च श्रेयोऽनुपश्यामि,
हत्वा स्वजनम् आहवे ।। 1.31
।। न काङ्क्षे विजयं
कृष्ण, न च राज्यं
सुखानि च
। किं नो राज्येन गोविन्द, किं भोगैर्
जीवितेन वा ।। 1.32 ।। येषाम् अर्थे
काङ्क्षितं
नो, राज्यं
भोगाः सुखानि च । त इमेऽवस्थिता
युद्धे, प्राणांसु
त्यक्त्वा
धनानि च ।।
1.33 ।। आचार्याः पितरः
पुत्रास्,
तथैव च पितामहाः
। मातुलाः श्वसुराः
पौत्राः, श्यालाः संबन्धिनस्
तथा ।। 1.34 ।। एतान् न हन्तुम्
इच्छामि, घ्नतोऽपि
मधुसूदन । अपि
त्रैलोक्यराज्यस्य,
हेतोः किं नु
महीकृते
।। 1.35 ।। निहत्य धार्तराष्ट्रान्
नः, का प्रीतिः
स्याज्
जनार्दन । पापम् एवाश्रयेद्
अस्मान्, हत्वैतान्
आततायिनः
।। 1.36 ।। तस्मान् नार्हा
वयं हन्तुं,
धार्तराष्ट्रान्
स्वबान्धवान्
। स्वजनं हि कथं हत्वा,
सुखिनः स्याम
माधव ।। 1.37 ।। यद्यप्येते न पश्यति,
लोभोपहतचेतसः
। कुलक्षयकृतं दोषं, मित्रद्रोहे
च पातकम्
।। 1.38 ।। कथं न ज्ञेयं
अस्माभिः,
पापाद् अस्मान् निवर्तितुम्
। कुलक्षयकृतं दोषं, प्रपश्यद्भिर्
जनार्दन ।। 1.39
।। कुलक्षये प्रणश्यन्ति,
कुलधर्माः
सनातनाः
। धर्मे नष्टे
कुलं कृत्स्नम्,
अधर्मोऽभिभवत्युत
।। 1.40 ।। अधर्माभिभवात् कृष्ण, प्रदुष्यन्ति
कुलस्त्रियः
। स्त्रीषु दुष्टासु
वार्ष्णेय,
जायते वर्णसंकरः
।। 1.41 ।। संकरो नरकायैव,
कुलघ्नानां
कुलस्य च
। पतन्ति पितरो
ह्येषां, लुप्तपिण्डोदकक्रियाः
।। 1.42 ।। दोषैर् एतैः कुलघ्नानां,
वर्णसंकरकारकैः
। उत्साद्यन्ते जातिधर्माः,
कुलधर्माश्च
शाश्वताः
।। 1.43 ।। उत्सन्नकुलधर्माणां, मनुष्याणां
जनार्दन । नरकेऽनियतं वासो, भवतीत्यऽनुशुश्रुम
।। 1.44 ।। अहो बत महत् पापं, कर्तुं
व्यवसिता
वयम् । यद् राज्यसुखलोभेन,
हन्तुं स्वजनम् उद्यताः
।। 1.45 ।। यदि
माम् अप्रतीकारम्,
अशस्त्रं
शस्त्रपाणयः
। धार्तराष्ट्रा रणे हन्युस्, तन् मे
क्षेमतरं
भवेत् ।।
1.46 ।। सञ्जय उवाच – एवम्
उक्त्वाऽर्जुनः
संख्ये, रथोपस्थ उपाविशत्
। विसृज्य सशरं चापं, शोकसंविग्नमानसः
।। 1.47 ।। ।। ऊँ तत्सदिति अर्जुन
विषादयोगो
नाम प्रथमोऽध्यायः
।। अथ द्वितीयोऽध्यायः 2. ब्रह्मविद्यायोगः सञ्जय उवाच – तं तथा कृपयाविष्टम्,
अश्रुपूर्णाकुलेक्षणम्
। विषीदन्तम् इदं वाक्यम्, उवाच मधुसूदनः
।। 2.1 ।। श्रीभगवानुवाच – कुतश्त्वा कश्मलम्
इदं, विषमे
समुपस्थितम्
। अनार्यजुष्टम् अस्वर्ग्यम्,
अकीर्तिकरम्
अर्जुन ।। 2.2 ।। क्लैब्यं मा स्म गमः
पार्थ, नैतत्
त्वय्य् उपपद्यते
। क्षुद्रं हृदयदौर्बल्यं,
त्यक्त्त्वोत्तिष्ठ
परंतप ।।
2.3 ।। अर्जुन
उवाच – कथं भीष्मम्
अहं संख्ये,
द्रोणं च
मधुसूदन । इषुभिः प्रतियोत्स्यामि,
पूजार्हाव्
अरिसूदन
।। 2.4 ।। गुरून् अहत्वा
हि महानुभावान्
श्रेयो भोक्तुम्
भैक्ष्यम्
अपीह लोके
। हत्वार्थकामांस् तु गुरून् इहैव भुञ्जीय भोगान्
रुधिरप्रदिग्धान्
।। 2.5 ।। न चैतद् विद्मः
कतरन् नो गरीयो
यद्
वा जयेम
यदि वा नो जयेयुः। यान् एव हत्वा न जिजीविषामस्
तेऽवस्थिताः प्रमुखे
धार्तराष्ट्राः
।। 2.6 ।। कार्पण्यदोषोपहतस्वभावः पृच्छामि त्वां
धर्मसंमूढचेताः
। यच्छ्रेयः स्यान्
निश्चितं
ब्रूहि तन् मे
शिष्यस् तेऽहं
शाधि मां त्वां प्रपन्नम्
।। 2.7 ।। न हि प्रपश्यामि
ममापनुद्याद् यच्छोकम् उच्छोषणम्
इन्द्रियाणाम्
। अवाप्य भूमाव्
असपत्नम्
ऋद्धं राज्यं सुराणाम्
अपि चाधिपत्यम्
।। 2.8 ।। सञ्जय उवाच – एवम्
उक्तवा हृषीकेशं, गुडाकेशं परंतप । न योत्स्य
इति गोविन्दम्,
उक्तवा तूष्णीं बभूव ह ।। 2.9
।। तम् उवाच हृषीकेशः, प्रहसन्न्
इव भारत । सेनयोर् उभयोर्
मध्ये, विषीदन्तम्
इदं वचः
।। 2.10 ।। श्रीभगवानुवाच – अशोच्यान् अन्वशोचस्
त्वं, प्रज्ञावादांश्च
भाषसे । गतासून् अगतासूंश्च,
नानुशोचन्ति
पण्डिताः
।। 2.11 ।। न त्वेवाहं जातु नासं,
न त्वं नेमे जनाधिपाः
। न चैव न भविष्यामः,
सर्वे वयम् अतः परम् ।। 2.12
।। देहिनोऽस्मिन् यथा देहे,
कौमारं यौवनं जरा
। तथा
देहान्तरप्राप्तिर्,
धीरस् तत्र न मुह्यति
।। 2.13 ।। मात्रास्पर्शास् तु कौन्तेय, शीतोष्णसुखदुःखदाः
। आगमापायिनोऽनित्यास्, तांस्
तितिक्षस्व
भारत ।। 2.14 ।। यं हि न व्यथयन्त्येते,
पुरुषं पुरुषर्षभ
। समदुःखसुखंधीरं, सोऽमृतत्वाय
कल्पते
।। 2.15 ।। नासतो विद्यते
भावो, नाभावो
विद्यते सतः । उभयोर् अपि दृष्टोऽन्तस्,
त्व अनयोस्
तत्त्वदर्शिभिः
।। 2.16 ।। अविनाशि तु तद् विद्धि,
येन सर्वम्
इदं ततम्
। विनाशं अव्ययस्यास्य,
न कश्चित्
कर्तुम् अर्हति ।।
2.17 ।। अन्तवन्त इमे देहा, नित्यस्योक्ताः
शरीरिणः
। अनाशिनोऽप्रमेयस्य, तस्माद्
युध्यस्व
भारत ।। 2.18 ।। य एनं वेत्ति
हन्तारं, यश्चैनं मन्यते हतम् । उभौ तौ न विजानीतो, नायं हन्ति
न हन्यते
।। 2.19 ।। न जायते म्रियते
वा कदाचिन्
नायं भूत्वा
भविता वा न भूयः । अजो नित्यं
शाश्वतोऽयं
पुराणो न हन्यते हन्यमाने शरीरे ।। 2.20
।। वेदविनाशिनं नित्यं,
य एनम् अजम् अव्ययम्
। कथं स पुरुषः
पार्थ, कं घातयति हन्ति कम्
।। 2.21 ।। वासांसि जीर्णानि
यथा विहाय नवानि गृह्णाति
नरोऽपराणि
। तथा
शरीराणि विहाय जीर्णान्य् अन्यानि संयाति
नवानि देही ।। 2.22
।। नैनं छिन्दन्ति
शस्त्राणि,
नैनं दहति
पावकः । नैनं चैनं क्लेद्यन्त्यापो,
न शोषयति मारुतः ।।
2.23 ।। अच्छेद्योऽयम् अदाह्योऽयम्,
अक्लेद्योऽशोष्य
एव च । नित्यः सर्वगतः
स्थाणुर्,
अचलोऽयं सनातनः ।।
2.24 ।। अव्यक्तोऽयम् अचिन्त्योऽयम्,
अविकार्योऽयम्
उच्यते । तस्माद् एवं विदित्वैनं,
नानुशोचितुम्
अर्हसि
।। 2.25 ।। अथ चैनं नित्यजातं,
नित्यं वा मन्यसे
मृतम् । तथापि
त्वं महाबाहो,
नैवं शोचितुम्
अर्हसि
।। 2.26 ।। जातस्य हि ध्रुवो मृत्युर्, ध्रुवं
जन्म मृतस्य
च । तस्माद् अपरिहार्येऽर्थे,
न त्वं शोचितुम् अर्हसि ।।
2.27 ।। अव्यक्तादीनि भूतानि,
व्यक्तमध्यानि
भारत । अव्यक्तनिधनान्येव, तत्र
का परिदेवना
।। 2.28 ।। आश्चर्यवत् पश्यति
कश्चिद् एनम् आश्चर्यवद् वदति तथैव चान्यः
। आश्चर्यवच्चैनम् अन्यः
श्रृणोति
श्रुत्वाप्येनं वेद न चैव
कश्चित्
।। 2.29 ।। देही नित्यम्
अवध्योऽयं,
देहे सर्वस्य
भारत । तस्मात् सर्वाणि
भूतानि, न त्वं शोचितुम्
अर्हसि
।। 2.30 ।। स्वधर्मम् अपि चावेक्ष्य,
न विकम्पितुम्
अर्हसि । धर्म्याधि युद्धाच्छ्रेयोऽन्यत्,
क्षत्रियस्य
न विद्यते
।। 2.31 ।। यदृच्छया चोपपन्नं,
स्वर्गद्वारम्
अपावृतम्
। सुखिनः क्षत्रियाः
पार्थः, लभन्ते युद्धम् ईदृशम् ।।
2.32 ।। अथ चेत् त्वम् इमं
धर्म्यं, संग्रामम्
न करिष्यसि
। ततः स्वधर्मम्
कीर्तिं
च, हित्वा पापम् अवाप्स्यसि
।। 2.33 ।। अकीर्ति
चापि भूतानि,
कथयिष्यन्ति
तेऽव्ययाम्
। संभावितस्य चाकीर्तिर्,
मरणाद् अतिरिच्यते
।। 2.34 ।। भयाद् रणाद्
उपरतं, मंस्यन्ते
त्वां महारथाः । येषां च त्वं
बहुमतो, भूत्वा यास्यसि लाघवम् ।।
2.35 ।। अवाच्यवादांश्च बहून्,
वदिष्यन्ति
तवाहिताः
। निन्दन्तस् तव सामर्थ्यं,
ततो दुःखतरं
नु किम्
।। 2.36 ।। हतो वा प्राप्स्यसि
स्वर्गं, जित्वा
वा भोक्ष्यसे
महीम् । तस्माद् उत्तिष्ठ
कौन्तेय, युद्धाय कृतनिश्चयः
।। 2.37 ।। सुखदुःखे
समे कृत्वा,
लाभालाभौ
जयाजयौ । ततो युद्धाय
युज्यस्व,
नैवं पापम्
अवाप्स्यसि
।। 2.38 ।। एषा तेऽभिहिता
सांख्ये, बुद्धिर् योगे त्व्
इमां शृणु
। बुद्धया युक्तो
यया
पार्थ, कर्मबन्धं
प्रहास्यसि
।। 2.39 ।। नेहाभिक्रमनाशोऽस्ति, प्रत्ययवायो
न विद्यते
स्वल्पम् अप्य अस्य धर्मस्य,
त्रायते महतो भयात्
।। 2.40 ।। व्यवसायात्मिका बुद्धिर्,
एकेह कुरुनन्दन बहुशाखा ह्य् अनन्ताश्च,
बुद्धयोऽव्यवसायिनाम्
।। 2.41 ।। याम् इमां पुष्पितां
वाचं, प्रवदन्त्य्
अविपश्चितः वेदवादरताः पार्थ, नान्यद्
अस्तीति वादिनः ।।
2.42 ।। कामात्मानः स्वर्गपरा,
जन्मकर्मफलप्रदाम्
। क्रियाविशेषबहुलां, भोगैश्वर्यगतिं
प्रति ।। 2.43 ।। भोगैश्वर्यप्रसक्तानां, तयापहृतचेतसाम्
। व्यवासायात्मिका बुद्धिः,
समाधौ न विधीयते
।। 2.44 ।। त्रैगुण्यविषया वेदा,
निस्त्रैगुण्यो
भवार्जुन
। निर्द्वन्द्वो नित्यसत्त्वस्थो,
निर्योगक्षेम
आत्मवान्
।। 2.45 ।। यावानर्थ उदपाने,
सर्वतः संप्लुतोदके
। तावान् सर्वेषु
वेदेषु, ब्राह्मणस्य
विजानतः
।। 2.46 ।। कर्मण्येवाधिकारस्ते, मा
फलेषु कदाचन । मा कर्मफलहेतुर्
भूर्, मा
ते सङ्गोऽस्त्व्
अकर्मणि
।। 2.47 ।। योगस्थः कुरु कर्माणि, सङ्गं त्यक्त्वा
धनञ्जय । सिद्ध्यसिद्धयोः समो
भूत्वा, समत्वं योगं उच्यते
।। 2.48 ।। दूरेण ह्यवरं
कर्म, बुद्धियोगाद्
धनञ्जय । बुद्धौ शरणम्
अन्विच्छ,
कृपणाः फलहेतवः
।। 2.49 ।। बुद्धियुक्तो जहातीह,
उभे सुकृतदुष्कृते
। तस्माद् योगाय
युज्यस्व,
योगः कर्मसु
कौशलम्
।। 2.50 ।। कर्मजं बुद्धियुक्ता
हि, फलं
त्यक्त्वा
मनीषिणः
। जन्मबन्धविनिर्मुक्ताः, पदं
गच्छन्त्य्
अनामयम्
।। 2.51 ।। यदा ते मोहकलिलं, बुद्धिर् व्यतितरिष्यति
। तदा गन्तासि
निर्वेदं,
श्रोतव्यस्य
श्रुतस्य
च ।। 2.52 ।। श्रुतिविप्रतिपन्ना ते,
यदा स्थास्यति
निश्चला
। समाधावचला बुद्धिस्,
तदा योगम्
अवाप्स्यसि
।। 2.53 ।। अर्जुन उवाच
– स्थितप्रज्ञस्य का
भाषा, समाधिस्थस्य
केशव । स्थितधीः किं
प्रभाषेत,
किम् आसीत्
व्रजेत किम् ।। 2.54
।। श्रीभगवानुवाच
– प्रजहाति यदा कामान्, सर्वान्
पार्थ मनोगतान्
। आत्मन्येव आत्मना
तुष्टः, स्थितप्रज्ञस्य
तदोच्यते
।। 2.55 ।। दुःखेष्व् अनुद्विग्नमनाः,
सुखेषु विगतस्पृहः
। वीतरागभयऽक्रोधः, स्थितधीर्
मुनिर् उच्यते ।।
2.56 ।। यः सर्वत्रानभिस्नेहस्,
तत् प्राप्य शुभाशुभम्
। नाभिनन्दति न द्वेष्टि,
तस्य
प्रज्ञा प्रतिष्ठिता
।। 2.57 ।। यदा संहरते
चायं, कूर्मोऽङ्गानीव सर्वशः
। इन्द्रियाणीन्द्रियार्थेभ्यस्, तस्य
प्रज्ञा प्रतिष्ठिता
।। 2.58 ।। विषया विनिवर्तन्ते,
निराहारस्य
देहिनः । रसवर्जं रसोऽप्यस्य,
परं दृष्ट्वा
निवर्तते
।। 2.59 ।। यततो ह्यपि
कौन्तेय, पुरुषस्य विपश्चितः
। इन्द्रियाणि प्रमाथिनि,
हरन्ति प्रसभं मनः ।। 2.60 ।। तानि सर्वाणि
संयम्य,
युक्त आसीत्
मत्परः । वशे हि यस्येन्द्रियाणि,
तस्य
प्रज्ञा प्रतिष्ठिता
।। 2.61 ।। ध्यायतो विषयान्
पुंसः, सङ्गस् तेषुपजायते
। सङ्गात् सञ्जायते
कामः, कामात्
क्रोधोऽभिजायते
।। 2.62 ।। क्रोधाद् भवति संमोहः, संमोहात् स्मृतिविभ्रमः
। स्मृतिभ्रंशाद् बुद्धिनाशो,
बुद्धिनाशात्
प्रनश्यति
।। 2.63 ।। रागद्वेषवियुक्तैस्तु, विषयान्
इन्द्रियैश्चरन्
। आत्मवश्यैर् विधेयात्मा,
प्रसादम्
अधिगच्छति
।। 2.64 ।। प्रसादे सर्वदुःखानां,
हानिर् अस्योपजायते
। प्रसन्नचेतसो ह्याशु,
बुद्धिः पर्यवतिष्ठते
।। 2.65 ।। नास्ति बुद्धिर्
अयुक्तस्य,
न चायुक्तस्य
भावना । न चाभावयतः शान्तिर्, अशान्तस्य
कुतः सुखम्
।। 2.66 ।। इन्द्रियाणां हि चरतां, यन्
मनोऽनुविधीयते
। तद्स्य हरति प्रज्ञां, वायुर् नावम् इवाम्भसि
।। 2.67 ।। तस्माद् यस्य महाबाहो, निगृहीतानि
सर्वशः । इन्द्रियाणीन्द्रियार्थेभ्यस्, तस्य
प्रज्ञा प्रतिष्ठिता
।। 2.68 ।। या निशा सर्वभूतानां,
तस्यां जागर्ति
संयमी । यस्यां जाग्रति भूतानि, सा निशा पश्यतो
मुनेः ।।
2.69 ।। आपूर्यमाणम् अचलप्रतिष्ठं समुद्रम् आपः प्रविशन्ति
यद्वत् । तद्वत् कामा यं प्रविशन्ति
सर्वे स शान्तिम् आप्नोति न कामकामी
।। 2.70 ।। विहाय कामान्
यः सर्वान्,
पुमांश्चरति
निस्पृहः
। निर्ममो निरहंकारः,
स शान्तिम्
अधिगच्छति
।। 2.71 ।। एषा ब्राह्मी
स्थितिः
पार्थ, नैनां
प्राप्य विमुह्यति
। स्थित्वाऽस्याम् अन्तकालेऽपि,
ब्रह्मनिर्वाणम्
ऋच्छति
।। 2.72 ।। ।। ऊँ तत्सदिति ब्रह्मविद्यायोगो
नाम द्वितीयोऽध्यायः
।। अथ तृतीयोऽध्यायः 3. कर्मयोगः अर्जुन
उवाच – ज्याययी चेत् कर्मणस् ते, मता
बुद्धिर्
जनार्दन । तत्
किं कर्मणि
घोरे मां, नियोजयसि
केशव ।। 3.1 ।। व्यामिश्रेणेव वाक्येन,
बुद्धिं मोहसीव मे । तद् एकं वद निश्चित्य,
येन श्रेयोऽहम्
आप्नुयाम्
।। 3.2 ।। श्रीभगवानुवाच – लोकेऽस्मिन् द्विविधा
निष्ठा, पुरा
प्रोक्ता
मयाऽनघ । ज्ञानयोगेन साङ्ख्यानाम्,
कर्मयोगेन
योगिनाम्
।। 3.3 ।। न कर्मणाम् अनारम्भान्,
नैष्कर्म्यं
पुरुषोऽश्नुते
। न च संन्यसनाद्
एव, सिद्धिं
समधिगच्छति
।। 3.4 ।। न हि कश्चित्
क्षणमपि, जातु तिष्ठत्य
अकर्मकृत्
। कार्यते ह्य अवशः कर्म, सर्वः प्रकृतिजैर्
गुणैः ।।
3.5 ।। कर्मेन्द्रियाणि संयम्य,
य आस्ते मनसा स्मरन्
। इन्द्रियार्थान् विमूढात्मा,
मिथ्याचारः
स उच्यते
।। 3.6 ।। यस् त्व इन्द्रियाणि
मनसा, नियम्यारभतेऽर्जुन
। कर्मैन्द्रियैः कर्मयोगम्,
असक्तः स विशिष्यते
।। 3.7 ।। नियतं कुरु
कर्म त्वं,
कर्म ज्यायो
ह्य अकर्मणः
। शरीरयात्रापि च ते,
न प्रसिद्धयेद्
अकर्मणः
।। 3.8 ।। यज्ञार्थात् कर्मणोऽन्यत्र,
लोकोऽयं कर्मबन्धनः
। तदर्थं कर्म कौन्तेय,
मुक्तसङ्गः
समाचर ।।
3.9 ।। सहयज्ञाः प्रजाः
सृष्ट्वा,
पुरोवाच प्रजापतिः
। अनेन प्रसविष्यध्वम्,
एष वोऽस्त्व्
इष्टकामधुक्
।। 3.10 ।। देवान् भावयतानेन,
ते देवा भावयन्तु
वः । परस्परं भावयन्तः,
श्रेयः परम् अवाप्स्यथ
।। 3.11 ।। इष्टान् भोगान्
हि वो
देवा, दास्यन्ते
यज्ञभाविताः
। तैर् दत्तान्
अप्रदायैभ्यो,
यो भुङ्क्ते
स्तेन एव सः
।। 3.12 ।। यज्ञशिष्टाशिनः सन्तो,
मुच्यन्ते
सर्वकिल्बिषैः
। भुञ्जते ते त्व् अघं
पापा, पचन्त्यात्मकारणात्
।। 3.13 ।। अन्नाद् भवन्ति
भूतानि, पर्जन्याद्
अन्नसंभवः
। यज्ञाद् भवति पर्जन्यो, यज्ञः कर्मसमुद्भवः
।। 3.14 ।। कर्म
ब्रह्मोद्भवं
विद्धि, ब्रह्माक्षरसमुद्भवम्
। तस्मात् सर्वगतं
ब्रह्म, नित्यं
यज्ञे प्रतिष्ठितम्
।। 3.15 ।। एवं
प्रवर्तितं
चक्रं, नानुवर्तयतीह
यः । अघायुर् इन्द्रियारामो, मोघं
पार्थ स जीवति
।। 3.16 ।। यस् त्वात्मरतिर्
एव स्याद्,
आत्मतृप्तश्च
मानवः । आत्मन्येव च संतुष्टस्,
तस्य कार्यं
न विद्यते
।। 3.17 ।। नैव तस्य कृतेनार्थो,
नाकृतेनेह
कश्चन । न चास्य सर्वभूतेषु,
कश्चिद् अर्थव्यपाश्रयः
।। 3.18 ।। तस्माद् असक्तः
सततं, कार्यं
कर्म समाचर
। असक्तो ह्याचरन्
कर्म, परम्
आप्नोति पुरुषः ।।
3.19 ।। कर्मणैव हि संसिद्धिम्,
आस्थिता जनकादयः । लोकसंग्रहमेवापि, संपश्यन्
कर्तुम् अर्हसि ।।
3.20 ।। यद्
यद् आचरति
श्रेष्ठस्,
तद् तद्
एवेतरो जनः । स यत् प्रमाणं
कुरुते, लोकस् तद्
अनुवर्तते
।। 3.21 ।। न मे पार्थास्ति
कर्तव्यं,
त्रिषु लोकेषु किञ्चन । नानावाप्तम् अवाप्तव्यं,
वर्त एव
च कर्मणि
।। 3.22 ।। यदि
ह्यहं न वर्तेयं, जातु कर्मण्यतन्द्रितः
। मम वर्त्मानुवर्तन्ते,
मनुष्याः
पार्थ सर्वशः
।। 3.23 ।। उत्सीदेयुर् इमे लोका, न कुयां
कर्म चेद्
अहम् । संकरस्य च कर्ता स्याम्, उपहन्याम्
इमाः प्रजाः
।। 3.24 ।। सक्ताः कर्मण्य्
अविद्वांसो,
यथा कुर्वन्ति
भारत । कुर्याद् विद्वांस्
तथासक्तश्,
चिकीर्षुर्
लोकसंग्रहम्
।। 3.25 ।। न बुद्धिभेदं
जनयेद्, अज्ञानां कर्मसङ्गिनाम्
। जोषयेत् सर्वकर्माणि,
विद्वान्
युक्तः समाचरन्
।। 3.26 ।। प्रकृतेः क्रियमाणानि,
गुणैः कर्माणि सर्वशः । अहंकारविमूढात्मा, कर्ताहम्
इति मन्यते
।। 3.27 ।। तत्त्ववित् तु महाबाहो,
गुणकर्मविभागयोः
। गुणा
गुणेषु वर्तन्त,
इति मत्वा
न सज्जते ।। 3.28
।। प्रकृतेर् गुणसंमूढाः,
सज्जन्ते
गुणकर्मसु
। तान् अकृत्स्नविदो
मन्दान्, कृत्स्नविन्
न विचालयेत्
।। 3.29 ।। मयि सर्वाणि
कर्माणि, संन्यस्याध्यात्मचेतसा
। निराशिर् निर्ममो
भूत्वा, युध्यस्य विगतज्वरः
।। 3.30 ।। ये मे मतम्
इदं नित्यम्,
अनुतिष्ठन्ति
मानवः । श्रद्धावन्तोऽनसूयन्तो, मुच्यन्ते
तेऽपि कर्मभिः
।। 3.31 ।। ये त्वेतद् अभ्यसूयन्तो,
नानुतिष्ठन्ति
मे मतम्
। सर्वज्ञानविमूढांस् तान्, विद्धि नष्टान् अचेतसः ।।
3.32 ।। सदृशं चेष्टते
स्वस्याः,
प्रकृतेर्
ज्ञानवान्
अपि । प्रकृतिं यान्ति
भूतानि, निग्रहः किं करिष्यति
।। 3.33 ।। इन्द्रियस्येन्द्रिस्यार्थे, रागद्वेषौ
व्यवस्थितौ
। तयोर् न वशम्
आगच्छेत्,
तौ ह्यस्य
परिपन्थिनौ
।। 3.34 ।। श्रेयान् स्वधर्मो
विगुणः, परधर्मात्
स्वनुष्ठितात्
। स्वधर्मे निधनं
श्रेयः, परधर्मो भयावहः ।।
3.35 ।। अर्जुन
उवाच – अथ केन प्रयुक्तोऽयं,
पापं चरति
पुरुषः । अनिच्छन्न अपि वार्ष्णेय,
बलाद् इव नियोजितः
।। 3.36 ।। श्रीभगवानुवाच – काम
एष क्रोध एष, रजोगुणसमुद्भवः
। महाशनो महापाप्मा,
विद्ध्येनम्
इह वैरिणम्
।। 3.37 ।। धूमेनाव्रियते वह्निर्,
यथादर्शो
मलेन च । यथोल्बेनावृतो
गर्भस्,
तथा तेनेदम्
आवृतम्
।। 3.38 ।। आवृतम् ज्ञानम्
एतेन, ज्ञानिनो
नित्यवैरिणा
। कामरूपेण कौन्तेय,
दुष्पूरेणाऽनलेन
च ।। 3.39 ।। इन्द्रियाणि मनो बुद्धिर्, अस्याधिष्ठानम्
उच्यते । एतैर् विमोहयत्य
एष, ज्ञानम्
आवृत्य देहिनम्
।। 3.40 ।। तस्मात् त्वम्
इन्द्रियाण्यादौ,
नियम्य भरतर्षभ । पापमानं प्रजहि
ह्येनं, ज्ञानविज्ञाननाशनम्
।। 3.41 ।। इन्द्रियाणि पराण्याहुर्,
इन्द्रियेभ्यः
परं मनः
। मनसस् तु परा बुद्धिर्,
यो बुद्धेः
परतस् तु सः
।। 3.42 ।। एवं
बुद्धेः परं बुद्ध्वा,
संस्तभ्यातमानम्
आत्मना । जहि शत्रुं
महाबाहो, कामरूपं दुरासदम्
।। 3.43 ।। ।। ऊँ तत्सदिति कर्मयोगो
नाम तृतीयोऽध्यायः
।। अथ चतुर्थोऽध्यायः 4. ज्ञानमयकर्मयोगः श्रीभगवानुवाच – इमं विवस्वते
योगं, प्रोक्तवान्
अहम्अव्ययम्
। विवस्वान् मनव् प्राह, मनुर्
इक्ष्वाकवेऽब्रवीत्
।। 4.1 ।। एवं
परम्पराप्राप्तम्,
इमं राजर्षयो
विदुः । स कालेनेह
महता, योगो
नष्टः परंतपः ।।
4.2 ।। स एवायं मया
तेऽद्य, योगः प्रोक्तं
पुरातनः
। भक्तोऽसि मे
सखा चेति, रहस्यं ह्येतद् उत्तमम्
।। 4.3 ।। अर्जुन
उवाच – अपरं भवतो
जन्म, परं
जन्म विवस्वतः
। कथम् एतद् विजानीयां,
त्वम् आदौ प्रोक्तवान्
इति ।। 4.4 ।। श्रीभगवानुवाच – बहूनि मे व्यतीतानि,
जन्मानि तव चार्जुन
। तान्यहं वेद सर्वाणि,
न त्वं वेत्थ परंतप
।। 4.5 ।। अजोऽपि सन्न अव्यात्मा,
भूतानाम्
ईश्वरोऽपि
सन् । प्रकृतिं स्वाम्
अधिष्ठाय,
संभवाम्यात्ममायया
।। 4.6 ।। यदा
यदा हि
धर्मस्य, ग्लानिर् भवति भारत
। अभ्युत्थानम् अधर्मस्य,
तदाऽऽत्मानं
सृजाम्यहम्
।। 4.7 ।। परित्राणाय साधूनां,
विनाशाय
च दुष्कृताम्
। धर्मसंस्थापनार्थाय, संभवामि
युगे युगे
।। 4.8 ।। जन्म
कर्म च मे दिव्यम्,
एवं यो वेत्ति
तत्वतः । त्यक्तवा देहं
पुनर्जन्म, नैति माम्
एति सोऽर्जुन
।। 4.9 ।। वीतरागभयक्रोधा, मन्मया
माम् उपाश्रिताः
। बहवो ज्ञानतपसा,
पूता मद्भावम्
आगताः ।।
4.10 ।। ये यथा
मां प्रपद्यन्ते,
तांस् तथैव भजाम्यहम्
। मम वर्त्मानुवर्तन्ते,
मनुष्याः
पार्थ सर्वशः
।। 4.11 ।। काङ्क्षन्तः कर्मणा
सिद्धिं, यजन्त इह देवताः । क्षिप्रं हि मानुषे लोके, सिद्धिर्
भवति कर्मजा
।। 4.12 ।। चातुर्वर्ण्यं मया सृष्टं, गुणकर्मविभागशः
। तस्य कर्तारम्
अपि मां, विद्धय्
अकर्तारम्
अव्ययम्
।। 4.13 ।। न कर्माणि लिम्पन्ति,
न मे कर्मफले
स्पृहा । इति
मां योऽभिजानाति,
कर्मभिर्
न स बध्यते
।। 4.14 ।। एवं
ज्ञात्वा
कृतं
कर्म, पूर्वैर्
अपि मुमुक्षुभिः
। कुरु
कर्मैव तस्मात् त्वं, पूर्वैः
पूर्वतरं
कृतम् ।।
4.15 ।। किं कर्म किम्
अकर्मेति,
कवयोऽप्य्
अत्र मोहिताः
। तत्
ते कर्म प्रवक्ष्यामि,
यज् ज्ञात्वा
मोक्ष्यसेऽशुभात् ।।
4.16 ।। कर्मणो ह्यपि
बोद्धव्यं,
बोद्धव्यं
च विकर्मणः
। अकर्मणश्च बोद्धव्यं,
गहना कर्मणो
गतिः ।। 4.17
।। कर्मण्य् अकर्म यः
पश्येद्, अकर्मणि च
कर्म यः स बुद्धिमान्
मनुष्येषु,
स युक्तः कृत्स्नकर्मकृत्
।। 4.18 ।। यस्य सर्वे
समारम्भाः,
कामसंकल्पवर्जिताः ज्ञानाग्निदग्धकर्माणं, तम् आहुः पण्डितं
बुधाः ।।
4.19 ।। त्यक्त्वा कर्मफलासङ्गं,
नित्यतृप्तो
निराश्रयः
। कर्मण्य् अभिप्रवृत्तोऽपि,
नैव किञ्चित्
करोति सः ।। 4.20 ।। निराशीर् यतचित्तात्मा,
त्यक्तसर्वपरिग्रहः
। शारीरं केवलं
कर्म, कुर्वन्
नाप्नोति
किल्बिषम्
।। 4.21 ।। यदृच्छालाभसंतुष्टो, द्वन्द्वातीतो
विमत्सरः
। समः सिद्धाव्
असिद्धौ
च, कृत्वापि
न निबध्यते
।। 4.22 ।। गतसङ्गस्य मुक्तस्य,
ज्ञानावस्थितचेतसः
। यज्ञायाचरतः कर्म, समग्रं प्रविलीयते
।। 4.23 ।। ब्रह्मार्पणं
ब्रह्म हविर्,
ब्रह्माग्नौ
ब्रह्मणा
हुतम् । ब्रह्मैव तेन
गन्तव्यं,
ब्रह्मकर्मसमाधिना
।। 4.24 ।। दैवम् एवापरे
यज्ञं, योगिनः पर्युपासते
। ब्रह्माग्नाव् अपरे
यज्ञं, यज्ञेनैवोपजुह्वति
।। 4.25 ।। श्रोत्रादीनीन्द्रियाण्य् अन्ये,
संयमाग्निषु
जुह्वति
। शब्दादीन् विषयान्
अन्ये, इन्द्रियाग्निषु
जुह्वति
।। 4.26 ।। सर्वाणीन्द्रियकर्माणि, प्राणकर्माणि
चापरे । आत्मसंयमयोगाग्रौ, जुह्वति
ज्ञानदीपिते
।। 4.27 ।। द्रव्ययज्ञास् तपोयज्ञा,
योगयज्ञास्
तथापरे । स्वाध्यायज्ञानयज्ञाश्च, यतयः
संशितव्रताः
।। 4.28 ।। अपाने जुह्वति
प्राणं, प्राणेऽपानं तथापरे
। प्राणापानगती रुद्धवा,
प्राणायामपरायणाः
।। 4.29 ।। अपरे नियताहाराः,
प्राणान्
प्राणेषु
जुह्वति
। सर्वेऽप्येते यज्ञविदो,
यज्ञक्षपितकल्मषाः
।। 4.30 ।। यज्ञशिष्टामृतभुजो, यान्ति
ब्रह्म सनातनम्
। नायं लोकोऽस्त्य्
अयज्ञस्य,
कुतोऽन्यः
कुरुसत्तम
।। 4.31 ।। एवं
बहुविधा यज्ञा, वितता
ब्रह्मणो
मुखे । कर्मजान् विद्धि
तान् सर्वान्,
एवं ज्ञात्वा
विमोक्ष्यसे ।।
4.32 ।। श्रेयान् द्रव्यमयाद्
यज्ञाज्, ज्ञानयज्ञः
परंतप । सर्वं कर्माखिलं
पार्थ, ज्ञाने
परिसमाप्यते
।। 4.33 ।। तद् विद्धि
प्रणिपातेन,
परिप्रश्नेन
सेवया । उपदेक्ष्यन्ति ते
ज्ञानं, ज्ञानिनस्
तत्त्वदर्शिनः
।। 4.34 ।। यज्
ज्ञात्वा
न पुनर् मोहम्, एवं यास्यसि पाण्डव । येन भूतान्य्
अशेषेण, द्रक्ष्यस्य्
आत्मन्य्
अथो मयि
।। 4.35 ।। अपि चेद्
असि पापेभ्यः,
सर्वेभ्यः
पापकृत्तमः
। सर्वं ज्ञानप्लवेनैव,
वृजिनं संतरिष्यसि
।। 4.36 ।। यथैधांसि समिद्धोऽग्निर्, भस्मसात्
कुरुतेऽर्जुन
। ज्ञानाग्निः सर्वकर्माणि,
भस्मसात्
कुरुते
तथा ।। 4.37 ।। न हि ज्ञानेन
सदृशं, पवित्रम्
इह विद्यते
। तत्
स्वयं योगसंसिद्धः,
कालेनात्मनि
विन्दति
।। 4.38 ।। श्रद्धावाँल् लभते ज्ञानं, तत्परः संयतेन्द्रियः
। ज्ञानं लब्ध्वा
परां शान्तिम्,
अचिरेणाधिगच्छति
।। 4.39 ।। अज्ञश्चाऽश्रद्दधानश्च, संशयात्मा
विनश्यति
। नायं लोकोऽस्ति
न परो, न सुखं संशयात्मनः
।। 4.40 ।। योगसंन्यस्तकर्माणं, ज्ञानसंछिन्नसंशयम्
। आत्मवन्तं न कर्माणि,
निबध्नन्ति
धनञ्जय
।। 4.41 ।। तस्माद् अज्ञानसंभूतं,
ह्यत्स्थं
ज्ञानासिनात्मनः
। छित्त्वैनं संशयं
योगम्, आतिष्ठोत्तिष्ठ
भारत ।। 4.42 ।। ।। ऊँ तत्सदिति ज्ञानमयकर्मयोगो
नाम चतुर्थोऽध्यायः
।। अथ पञ्चमोऽध्यायः 5. संन्यासयोगः अर्जुन
उवाच – संन्यासं कर्मणां
कृष्ण, पुनर्
योगं च शंससि । यच्छ्रेय एतयोर्
एकं, तन्
मे ब्रूहि
सुनिश्चितम्
।। 5.1 ।। श्रीभगवानुवाच – संन्यासः कर्मयोगश्च,
निःश्रेयसकराव
उभौ । तयोस् तु कर्मसंन्यासात्,
कर्मयोगो
विशिष्यते
।। 5.2 ।। ज्ञेयः स नित्यसंन्यासी,
यो न द्वेष्टि
न काङ्क्षति
। निर्द्वन्द्वो हि महाबाहो, सुखं बन्धात्
प्रमुच्यते
।। 5.3 ।। सांख्ययोगो
पृथग्बालाः,
प्रवदन्ति न
पण्डिताः । एकम् अप्य आस्थितः सम्यग्, उभयोर् विन्दते फलम् ।। 5.4
।। यत् सांख्यैः
प्राप्यते
स्थानं, तद् योगैर्
अपि गम्यते
। एकं सांख्यं
च योगं च, यः पश्यति
स पश्यति
।। 5.5 ।। संन्यासस् तु महाबाहो, दुःखम् आप्तुम् अयोगतः । योगयुक्तो मुनिर्
ब्रह्म, नचिरेणाधिगच्छति
।। 5.6 ।। योगयुक्तो विशुद्धात्मा,
विजितात्मा
जितेन्द्रियः
। सर्वभूतात्मभूतात्मा, कुर्वन्न
अपि न लिप्यते
।। 5.7 ।। नैवं किञ्चित्
करोमीति, युक्तो मन्येत् तत्त्वित्
। पश्यञ्श्रृण्वन् स्पृश्ञ्जिघ्रन्,
अश्नन्गच्छन्
स्वपञ्श्वस्न् ।।
5.8 ।। प्रलपन् विसृजन्
गृहणन्न्,
उन्मिषन्
निमिषन्न
अपि । इन्द्रियाणीन्द्रियार्थेषु, वर्तन्त
इति धारयन्
।। 5.9 ।। ब्रह्मण्य् आधाय कर्माणि, सङ्गं त्यक्त्वा
करोति यः लिप्यते न स पापेन,
पद्मपत्रम्
इवाम्भसा
।। 5.10 ।। कायेन मनसा बुद्धया, केवलैर् इन्द्रियैर्
अपि । योगिनः कर्म कुर्वन्ति,
सङ्गं त्यक्तवात्मशुद्धये
।। 5.11 ।। युक्तः कर्मफलं
त्यक्तवा,
शान्तिम्
आप्नोति नैष्ठिकीम्
। अयुक्तः कामकारेण,
फलो सक्तो
निबध्यते
।। 5.12 ।। सर्वकर्माणि मनसा, संन्यस्यास्ते
सुखं वशी
। नवद्वारे पुरे देही, नैव
कुर्वन्
न कारयन्
।। 5.13 ।। न कर्तृत्वं
न कर्माणि,
लोकस्य सृजति प्रभुः
। न कर्मफलसंयोगं,
स्वभावस्
तु प्रवर्तते
।। 5.14 ।। नादत्ते कस्यचित्
पापं, न चैव सुकृतं
विभुः । अज्ञानेनाऽवृतं ज्ञानं,
तेन मुह्यति
जन्तवः
।। 5.15 ।। ज्ञानेन तु तद् अज्ञानं,
येषां नाशितम् आत्मनः । तेषाम् आदित्यवज्
ज्ञानं, प्रकाशयति
तत् परम्
।। 5.16 ।। तद्बुद्धयस् तदात्मानस्,
तन्निष्ठास्
तत्परायणाः गच्छन्त्य् अपुनरावृत्तिं,
ज्ञाननिर्धूतकल्मषाः
।। 5.17 ।। विद्याविनयसंपन्ने, ब्राह्मणे
गवि हस्तिनि
। शुनि चैव श्वपाके च, पण्डिताः समदर्शिनः
।। 5.18 ।। इहैव तैर् जितः सर्गो,
येषां साम्ये स्थितं मनः । निर्दोषं हि समं
ब्रह्म, तस्माद्
ब्रह्मणि
ते स्थिताः
।। 5.19 ।। न प्रहृष्येत्
प्रियं
प्राप्य, नोद्विजेत्
प्राप्य चाप्रियम्
। स्थिरबुद्धिर् असंमूढो,
ब्रह्मविद्
ब्रह्मणि
स्थितः
।। 5.20 ।। बाह्यस्पर्शेष्व असक्तात्मा,
विन्दत्यात्मनि
यत् सुखम्
। सब्रह्मयोगयुक्तात्मा, सुखम्
अक्षयम् अश्नुते
।। 5.21 ।। ये हि संस्पर्शजा
भोगा, दुःखयोनय
एव ते
। आद्यन्तवन्तः कौन्तेय,
न तेषु
रमते बुधः
।। 5.22 ।। शक्नोतीहैव यः सोढुं, प्राक्
शरीरविमोक्षणात्
। कामक्रोधोद्भवं वेगं,
स युक्तः
स सुखी नरः
।। 5.23 ।। योऽन्तः सुखोऽन्तरारामस्,
तथान्तर्
ज्योतिर्
एव यः
। स
योगी ब्रह्मनिर्वाणं,
ब्रह्मभूतोऽधिगच्छति
।। 5.24 ।। लभन्ते ब्रह्मनिर्वाणं,
ऋषयः क्षीणकल्मषाः
। छिन्नद्वैधा यतात्मानः,
सर्वभूतहिते
रताः ।। 5.25
।। कामक्रोधवियुक्तानां, यतीनां
यतचेतसाम्
। अभितो ब्रह्मनिर्वाणं,
वर्तते विदिताऽत्मनाम्
।। 5.26 ।। स्पर्शान् कृत्वा
बहिर् बाह्यांश्,
चक्षुश्चैवान्तरे
भ्रुवोः
। प्राणापानौ समौ कृत्वा, नासाभ्यन्तरचारिणौ
।। 5.27 ।। यतेन्द्रियमनोबुद्धिर्, मुनिर्
मोक्षपरायणः
। विगतेच्छाभयक्रोधो, यः
सदा मुक्त एव
सः ।। 5.28 ।। भोक्तारं यज्ञतपसां,
सर्वलोकमहेश्वरम्
। सुहृदं सर्वभूतानां,
ज्ञात्वा
मां शान्तिम्
ऋच्छति
।। 5.29 ।। ।। ऊँ तत्सदिति संन्यासयोगो
नाम पञ्चमोऽध्यायः
।। अथ षष्ठोऽध्यायः 6. ब्रह्मविचारयोगः श्रीभगवानुवाच – अनाश्रितः कर्मफल, कार्यं
कर्म करोति
यः । स
संन्यासी च
योगी च, न निरग्निर्
न चाक्रियः
।। 6.1 ।। यं संन्यासम्
इति प्राहुर्,
योगं तद्
विद्धि पाण्डव । न ह्य् असंन्यस्तसंकल्पो,
योगी भवति
कश्चन ।।
6.2 ।। आरुरुक्षोर् मुनेर्
योगं, कर्म कारणम् उच्यते । योगारूढस्य तस्यैव,
शमः कारणम्
उच्यते
।। 6.3 ।। यदा
हि नेन्द्रियार्थेषु,
न कर्मस्व
अनुषज्जते
। सर्वसंकल्पसंन्यासी, योगारूढस्
तदोच्यते
।। 6.4 ।। उद्धरेद् आत्मनात्मानं,
नात्मानम्
अवसादयेत्
। आत्मैव ह्यात्मनो
बन्धुर्, आत्मैव रिपुर् आत्मनः ।।
6.5 ।। बन्धुर् आत्मात्मनस्
तस्य, येनात्मैवात्मना
जितः । अनात्मनस् तु शत्रुत्वे,
वर्तेतात्मैव
शत्रुवत्
।। 6.6 ।। जितात्मनः प्रशान्तस्य,
परमात्मा समाहितः
। शीतोष्णसुखदुःखेषु, तथा
मानापमानयोः
।। 6.7 ।। ज्ञानविज्ञानतृप्तात्मा, कूटस्थो
विजितेन्द्रियः
। युक्त
इत्युच्यते
योगी, समलोष्टाश्मकाञ्चनः
।। 6.8 ।। सुहृन्मित्रार्युदासीन- मध्यस्थद्वेष्यबन्धुषु
। साधुष्व् अपि च पापेषु,
समबुद्धिर्
विशिष्यते
।। 6.9 ।। योगी
युञ्जीत सततम्, आत्मानं
रहसि स्थितः
। एकाकी
यतचित्तात्मा,
निराशीर्
अपरिग्रहः
।। 6.10 ।। शुचौ देशे प्रतिष्ठाप्य,
स्थिरम् आसनम् आत्मनः
। नात्युच्छ्रितं नातिनीचं,
चैलाजिनकुशोत्तरम्
।। 6.11 ।। तत्रैकाग्रं मनः कृत्वा, यतचित्तेन्द्रयक्रियः
। उपविश्यासने युञ्जयाद्,
योगमात्मविशुद्धये
।। 6.12 ।। समं कायशिरोग्रीवं,
धारयन्न्
अचलं स्थिरः
। संप्रेक्ष्य नासिकाग्रं
स्वं, दिशश्चानवलोकयन्
।। 6.13 ।। प्रशान्तात्मा विगतभीर्,
ब्रह्मचारिव्रते
स्थितः । मनः संयम्य
मच्चितो,
युक्त आसीत्
मत्परः
।। 6.14 ।। युञ्जन्न एवं सदात्मानं,
योगी नियतमानसः
। शान्तिं निर्वाणपरमां,
मत्संस्थाम्
अधिगच्छति
।। 6.15 ।। नाऽत्यऽश्नतस् तु योगोऽस्ति,
न चैकान्तम्
अनश्नतः
। न चाति स्वप्नशीलस्य,
जाग्रतो नैव चार्जुन
।। 6.16 ।। युक्ताहारविहारस्य, युक्तचेष्टस्य
कर्मसु । युक्तस्वप्नावबोधस्य, योगो भवति दुःखहा
।। 6.17 ।। यदा
विनियतं चित्तम्, आत्मन्य् एवावतिष्ठते
। निःस्पृहः सर्वकामेभ्यो,
युक्त इत्य
उच्यते
तदा ।। 6.18 ।। यथा
दीपो निवातस्थो,
नेङ्गते सोपमा स्मृता
। योगिनो यतचित्तस्य,
युञ्जजतो
योगम् आत्मनः ।।
6.19 ।। यत्रोपरते चित्तं,
निरुद्धं
योगसेवया
। यत्र चैवात्मनाऽत्मानं,
पश्यन्न्
आत्मनि तुष्यति
।। 6.20 ।। सुखम् आत्यन्तिकं
यत् तद्,
बुद्धिग्राह्यम्
अतीन्द्रियम्
। वेत्ति यत्र
न चैवायं, स्थितश् चलति तत्त्वतः
।। 6.21 ।। यं लब्ध्वा
चापरं लाभं, मन्यते
नाधिकं ततः । यस्मिन् स्थितो
न दुःखेन, गुरुणापि विचाल्यते
।। 6.22 ।। तं विद्याद्
दुःखसंयोग,
-वियोगं योगसंज्ञितम्
। स निश्चयेन योक्तव्यो,
योगोऽनिर्विण्णचेतसा
।। 6.23 ।। संकल्पप्रभवान् कामांस्,
त्यक्त्वा
सर्वान् अशेषतः । मनसैवेन्द्रियग्रामं, विनियम्य
समन्ततः
।। 6.24 ।। शनैः
शनैर् उपरमेद्, बुद्धया धृतिगृहीतया
। आत्मसंस्थं मनः कृत्वा, न किंचिद्
अपि चिन्तयेत्
।। 6.25 ।। यतो यतो निश्चरति, मनश्चञ्चलम्
अस्थिरम्
। ततस् ततो नियम्यैतद्,
आत्मन्येव
वशं नयेत्
।। 6.26 ।। प्रशान्तमनसं ह्येनं,
योगिनं सुखम् उत्तमम्
। उपैति शान्तरजसं,
ब्रह्मभूतम्
अकल्मषम्
।। 6.27 ।। युञ्जन्न एवं सदात्मानं,
योगी विगतकल्मषः
। सुखेन ब्रह्मसंस्पर्शम्,
अत्यन्तं
सुखं अश्नुते
।। 6.28 ।। सर्वभूतस्थम् आत्मानं,
सर्वभूतानि
चात्मानि
। ईक्षते योगयुक्तात्मा,
सर्वत्र समदर्शनः
।। 6.29 ।। यो मां पश्यति
सर्वत्र, सर्वं
च मयि पश्यति
। तस्याहं न प्रणश्यामि,
स च मे न प्रणश्यति
।। 6.30 ।। सर्वभूतस्थितं यो
मां, भजत्य्
एकत्वम् आस्थितः । सर्वथा
वर्तमानोऽपि,
स योगी मयि
वर्तते
।। 6.31 ।। आत्मौपम्येन
सर्वत्र, समं
पश्यति योऽर्जुन
। सुखं वा
यदि वा दुःखं, स
योगी परमो
मतः ।। 6.32
।। अर्जुन
उवाच – योऽयं योगस्
त्वया प्रोक्तः, साम्येन
मधुसूदन । एतस्याहं न पश्यामि,
चञ्चलत्वात्
स्थितिं स्थिराम् ।।
6.33 ।। चञ्चलं हि मनः कृष्ण, प्रमाथि बलवद् दृढम्
। तस्याहं निग्रहं
मन्ये, वायोर् इव सुदुष्करम्
।। 6.34 ।। श्रीभगवानुवाच – असंशयं महाबाहो,
मनो दुर्निग्रहं
चलम् । अभ्यासेन तु कौन्तेय, वैराग्येण
च गृह्यते
।। 6.35 ।। असंयताऽत्मना योगो, दुष्प्राप
इति मे मतिः । वश्यात्मना तु यतता, शक्योऽवाप्तुम्
उपायतः
।। 6.36 ।। अर्जुन
उवाच – अयतिः श्रद्धयोपेतो,
योगाच् चलितमानसः
। अप्राप्य
योगसंसिद्धिं,
कां गतिं
कृष्ण गच्छति
।। 6.37 ।। कच्चिन् नोभयविभ्रष्टश्,
छिन्नाभ्रम्
इव नश्यति
। अप्रतिष्ठो महाबाहो, विमूढो
ब्रह्मणः
पथि ।। 6.38
।। एतन् मे संशयं
कृष्ण, छेत्तुम्
अर्हस्य अशेषतः । त्वदन्यः संशयस्यास्य,
छेत्ता न ह्य उपपद्यते
।। 6.39 ।। श्रीभगवानुवाच – पार्थ
नैवेह नामुत्र, विनाशस् तस्य विद्यते
। न हि कल्याणकृत्
कश्चिद्, दुर्गतिं
तात गच्छति
।। 6.40 ।। प्राप्य
पुण्यकृतां
लोकान्, उषित्वा शाश्वतीः समाः । शुचीनां श्रीमतां
गेहे, योगभ्रष्टोऽभिजायते
।। 6.41 ।। अथवा
योगिनाम्
एव, कुले
भवति धीमताम्
। एतद्धि दुर्लभतरं,
लोके
जन्म यद् ईदृशम्
।। 6.42 ।। तत्र तं बुद्धिसंयोगं,
लभते पौर्वदेहिकम्
। यतते च ततो
भूयः, संसिद्धौ
कुरुनन्दन
।। 6.43 ।। पूर्वाभ्यासेन तेनैव,
ह्रियते ह्य अवशोऽपि
सः । जिज्ञासुर् अपि योगस्य,
शब्दब्रह्मातिवर्तते
।। 6.44 ।। प्रयत्नाद् यतमानस्
तु, योगी संशुद्धिकिल्बिषः
। अनेकजन्मसंसिद्धस्, ततो याति परां
गतिम् ।।
6.45 ।। तपस्विभ्योऽधिको योगी, ज्ञानिभ्योऽपि
मतोऽधिकः
। कर्मिभ्यश् चाधिको
योगी, तस्माद्
योगी भवार्जुन
।। 6.46 ।। योगिनाम् अपि सर्वेषां,
मद्गतेनाऽन्तरात्मना
। श्रद्धावान् भजते यो
मां, स मे युक्ततमो मतः ।। 6.47 ।। ।। ऊँ तत्सदिति ब्रह्मविचारयोगो
नाम षष्ठोऽध्यायः
।। अथ सप्तमोऽध्यायः 7. ज्ञानविज्ञानयोगः श्रीभगवानुवाच – मय्य् आसक्तमनाः
पार्थ, योगः युञ्जन् मदाश्रयः
। असंशयं समग्रं
मां, यथा ज्ञास्यसि
तच्छृणु
।। 7.1 ।। ज्ञानं तेऽहं
सविज्ञानम्,
इदं वक्ष्याम्य्
अशेषतः । यज् ज्ञात्वा
नेह भूयोऽन्यज्,
ज्ञातव्यम्
अवशिष्यते ।।
7.2 ।। मनुष्याणां सहस्रेषु,
कश्चिद् यतति सिद्धये
। यतताम् अपि सिद्धानां,
कश्चिन्
मां वेत्ति
तत्त्वतः
।। 7.3 ।। भूमिर् आपोऽनलो
वायुः, खं मनो
बुद्धिर्
एव च । अहंकार
इतीयं मे, भिन्ना प्रकृतिर्
अष्टधा
।। 7.4 ।। अपरेयम् इतस्
त्व अन्यां,
प्रकृति विद्धि
मे पराम्
। जीवभूतां महाबाहो,
ययेदं धार्यते जगत् ।। 7.5
।। एतद्योनीनि भूतानि,
सर्वाणीत्य्
उपधारय । अहं
कृत्स्नस्य
जगतः, प्रभवः
प्रलयस्
तथा ।। 7.6 ।। मत्तः परतरं
नान्यत्, किञ्चिद्
अस्ति धनञ्जय
। मयि सर्वम्
इदं प्रोक्तं,
सूत्रे मणिगणा इव ।। 7.7 ।। रसोऽहम् अप्सु
कौन्तेय, प्रभास्मि
शशिसूर्ययोः
। प्रणवः सर्ववेदेषु,
शब्दः खे पौरुषं नृषु ।। 7.8
।। पुण्यो गन्धः
पृथिव्यां
च, तेजश्चास्मि
विभावसौ
। जीवनं सर्वभूतेषु,
तपश् चास्मि
तपश्विषु
।। 7.9 ।। बीजं मां सर्वभूतानां,
विद्धि
पार्थ सनातनम्
। बुद्धिर् बुद्धिमताम्
अस्मि, तेजस् तेजस्विनाम्
अहम् ।। 7.10 ।। बलं बलवतां
चाहं, कामरागविवर्जितम्
। धर्माविरुद्धो भूतेषु,
कामोऽस्मि
भरतर्षभ
।। 7.11 ।। ये चैव सात्विका
भावा, राजसास्
तामसाश्च
ये । मत्त
एवेति तान् विद्धि,
न त्व अहं तेषु
ते मयि
।। 7.12 ।। त्रिभिर् गुणमयैर्,
भावैर्, एभिः सर्वम्
इदं जगत्
। मोहितं नाभिजानाति,
माम् एभ्यः
परम् अव्ययम्
।। 7.13 ।। दैवी
ह्य एषा
गुणमयी, मम माया दुरत्यया
। माम् एव प्रपद्यन्ते,
मायाम् एतां तरन्ति
ते ।। 7.14 ।। न
मां दुष्कृतिना
मूढाः, प्रपद्यन्ते
नराधमाः
। माययापहृतज्ञाना, आसुरं
भावम् आश्रिताः
।। 7.15 ।। चतुर्विधा भजन्ते
मां, जनाः सुकृतोऽर्जुन
। आर्तो जिज्ञासुर्,
अर्थार्थी,
ज्ञानी च भरतर्षभ
।। 7.16 ।। तेषां ज्ञानी नित्ययुक्त,
एकभक्तिर्
विशिष्यते
। प्रियो हि ज्ञानिनोऽत्यर्थम्,
अहं स च मम प्रियः ।।
7.17 ।। उदाराः सर्व एवैते,
ज्ञानी त्व आत्मैव मे मतम्
। आस्थितः स हि युक्तात्मा,
माम् एवानुत्तमाम्
गतिम् ।।
7.18 ।। बहूनां जन्मनाम्
अन्ते, ज्ञानवान्
मां प्रपद्यते
। वासुदेवः सर्वम्
इति, स
महात्मा सुदुर्लभः
।। 7.19 ।। कामैस् तैस्तैर्
हृतज्ञानाः,
प्रपद्यन्तेऽन्यदेवताः
। तं तं नियमम् आस्थाय,
प्रकृत्या नियताः स्वया ।। 7.20 ।। यो यो यां यां
तनुं भक्तः,
श्रद्धयार्चितुम् इच्छति । तस्य तस्याचलां
श्रद्धां, ताम् एव विदधाम्य्
अहम् ।। 7.21 ।। स तया श्रद्धया
युक्तस् , तस्याराधनम् ईहते लभते च ततः कामान्, मयैव विहितान् ही तान् ।। 7.22 ।।
अन्त
तयावन्त्
तु फलं
तेषां, तद् भवत्य
अल्पमेधसाम्
। देवान् देवयजो
यान्ति, मद्भक्ता यान्ति माम् अपि
।। 7.23 ।। अव्यक्तं व्यक्तिम्
आपन्नं, मन्यते माम् अबुद्धयः
। परं भावम्
अजानन्तो,
ममाव्ययम्
अनुत्तमम्
।। 7.24 ।। नाहं प्रकाशः
सर्वस्य, योगमायासमावृतः
। मूढोऽयं नाभिजानाति, लोको माम् अजम्
अव्ययम्
।। 7.25 ।। वेदाहं समतीतानि,
वर्तमानानि
चार्जुन
। भविष्याणि च भूतानि,
मां तु
वेद न कश्चन
।। 7.26 ।। इच्छाद्वेषसमुत्थेन, द्वन्द्वमोहेन
भारत । येषां त्व् अन्तगतं पापं, जनानां
पुण्यकर्मणाम्
। ते द्वन्द्वमोहनिर्मुक्ता,
भजन्ते
मां दृढव्रताः
।। 7.28 ।। जरामरणमोक्षाय, माम् आश्रित्य
यतन्ति
ये । ते ब्रह्म तद् विदुः
कृत्स्नम्,
अध्यात्मं
कर्म चाखिलम्
।। 7.29
।। साधिभूताधिदैवं मां, साधियज्ञं
च ये विदुः
। प्रयाणकालेऽपि च मां, ते
विदुर् युक्तचेतसः
।। 7.30 ।। ।। ऊँ तत्सदिति ज्ञानविज्ञानयोगो
नाम सप्तमोऽध्यायः
।। अथ अष्टमोऽध्यायः 8. अक्षरब्रह्मयोगः अर्जुन
उवाच – किं तद्
ब्रह्म किम्
अध्यात्मं,
किं कर्म
पुरुषोत्तम । अधिभूतं च किम्
प्रोक्तं,
अधिदैव किम् उच्यते
।। 8.1 ।। अधियज्ञः कथं कोऽत्र, देहेऽस्मिन्
मधुसूदन । प्रयाणकाले च कथं,
ज्ञेयोऽसि
नियतात्मभिः
।। 8.2 ।। श्रीभगवानुवाच – अक्षरं ब्रह्म परमं, स्वभावोऽध्यात्मम्
उच्यते । भूतभावोद्भवकरो, विसर्गः
कर्मसंज्ञितः
।। 8.3 ।। अधिभूतं क्षरो
भावः, पुरुषश्चाधिदैवतम्
। अधियज्ञोऽहम् एवात्र,
देहे देहभृतां
वर ।। 8.4 ।। अन्तकाले च माम्
एव, स्मरन्
मुक्त्वा
कलेवरम्
। यः प्रयाति
स मद्भावं,
याति नास्त्य्
अत्र संशयः
।। 8.5 ।। यं यं वापि स्मरन्
भावं, त्यजत्य
अन्ते कलेवरम् तं तं एवैति कौन्तेय,
सदा तद्भावभावितः
।। 8.6 ।। तस्मात् सर्वेषु
कालेषु, माम् अनुस्मर
युध्य च । मय्य् अर्पितमनोबुद्धिर्,
माम् एवैष्यस्य्
असंशयम्
।। 8.7 ।। अभ्यासयोगयुक्तेन, चेतसा
नागन्यगामिना
। परमं पुरुषं
दिव्यं, याति पार्थानुचिन्तयन्
।। 8.8 ।। कविं पुराणम्
अनुशासितारम् अणोर् अणीयांसम्
अनुस्मरेद्
यः । सर्वस्य धातारम्
अचिन्त्यरूपम् आदित्यवर्णं तमसः परस्तात्
।। 8.9 ।। प्रयाणकाले मनसाचलेन भक्तया युक्तो
योगबलेन चैव । भ्रूवोर् मध्ये
प्राणम् आवश्येव
सम्यक् स तं परं
पुरुषम् उपैति दिव्यम्
।। 8.10 ।। यद्
अक्षरं वेदविदो वदन्ति विशन्ति यद् यतयो
वीतरागाः
। यद्
इच्छन्तो
ब्रह्मचर्यं
चरन्ति तत्
ते पदं
संग्रहेण
प्रवक्ष्ये
।। 8.11 ।। सर्वद्वाराणि संयम्य,
मनो हृदि
निरुध्य
च । मूर्ध्न्य् आधायात्मनः
प्राणम्, आस्थितो योगधारणम्
।। 8.12 ।। ओम् इत्य्
एकाक्षरं
ब्रह्म, व्याहरन्
माम् अनुस्मरन्
यः प्रयाति
त्यजन् देहं, स याति
परमां गतिम् ।। 8.13
।। अनन्यचेताः सततं, यो मां स्मरति
नित्यशः
। तस्याहं सुलभ
पार्थ, नित्ययुक्तस्य
योगिनः
।। 8.14 ।। माम् उपेत्य
पुनर्जन्म, दुःखालयम्
अशाश्वतम्
। नाप्नुवन्ति महात्मनः,
संसिद्धिं
परमां गताः ।। 8.15
।। आब्रह्मभुवनाल् लोकाः,
पुनरावर्तिनोऽर्जुन
। माम् उपेत्य
तु कौन्तेय,
पुनर्जन्म न विद्यते
।। 8.16 ।। सहस्रयुगपर्यन्तम्, अहर्
यद् ब्रह्मणो
विदुः । रात्रिं युगसहस्रान्तां,
तेऽहोरात्रविदो
जनाः ।। 8.17
।। अव्यक्ताद् व्यक्तयः
सर्वाः, प्रभवन्त्य
अहरागमे
। रात्र्यागमे प्रलीयन्ते,
तत्रैवाव्यक्तसंज्ञके
।। 8.18 ।। भूतग्रामः स एवायं,
भूत्वा भूत्वा प्रलीयते
। रात्र्यागमेऽवशः पार्थ, प्रभवत्य
अहरागमे
।। 8.19 ।। परस् तस्मात्
तु भावोऽन्यो,
ऽव्यक्तोऽवयक्तात्
सनातनः । यः स सर्वेषु
भूतेषु, नश्यत्सु
न विनश्यति
।। 8.20 ।। अव्यक्तोऽक्षर इत्य्
उक्तस्, तम् आहुः
परमां गतिम् यं प्राप्य
न निवर्तन्ते,
तद् धाम परमं मम
।। 8.21 ।। पुरुषः स परः
पार्थ, भक्तया
लभ्यस् त्व् अनन्यया
। यस्यान्तःस्थानि भूतानि,
येन सर्वम्
इदं ततम्
।। 8.22 ।। यत्र काले त्व्
अनावृत्तिम्,
आवृत्तिं
चैव योगिनः
। प्रयाता यान्ति
तं कालं,
वक्ष्यामि
भरतर्षभ
।। 8.23 ।। अग्रिर् ज्योतिर्
अहः शुक्लः,
षण्मासा उत्तरायणम्
। तत्र प्रयाता
गच्छन्ति,
ब्रह्म ब्रह्मविदो
जनाः ।। 8.24
।। धूमो रात्रिस्
तथा कृष्णः,
षण्मासा दक्षिणायनम्
। तत्र चान्द्रमसं
ज्योतिर्,
योगी प्राप्य निवर्तते
।। 8.25 ।। शुक्लकृष्णे गती ह्येते, जगतः शाश्वते
मते । एकया यात्य्
अनावृत्तिम्,
अन्ययावर्तते
पुनः ।। 8.26 ।। नैते सृती
पार्थ जानन्,
योगी मुह्यति
कश्चन । तस्मात् सर्वेषु
कालेषु, योगयुक्तो
भवार्जुन
।। 8.27 ।। वेदेषु यज्ञेषु
तपःसु चैव दानेषु यत् पुण्यफलं प्रदिष्टम्
। अत्येति तत् सर्वम्
इदं विदित्वा
योगी
परं स्थानम्
उपैति चाद्यम्
।। 8.28 ।। ।। ऊँ तत्सदिति अक्षरब्रह्मयोगो
नाम अष्टमोऽध्यायः
।। अथ नवमोऽध्यायः 9. राजविद्याराजगुह्ययोगः श्रीभगवानुवाच – इदं तु ते गुह्यतमं,
प्रवक्ष्याम्य्
अनसूयवे
। ज्ञानं विज्ञानसहितं,
यज् ज्ञात्वा
मोक्ष्यसेऽशुभात्
।। 9.1 ।। राजविद्या राजगुह्यं,
पवित्रम्
इदं उत्तमम्
। प्रत्यक्षावगमं धर्म्यं,
सुसुखं कर्तुम् अव्ययम्
।। 9.2 ।। अश्रद्धानां पुरुषा,
धर्मस्यास्य
परंतप । अप्राप्य
मां निवर्तन्ते,
मृत्युसंसारवर्त्मनि
।। 9.3 ।। मया ततम् इदं सर्वं,
जगद् अव्यक्तमूर्तिना
। मत्स्थानि सर्वभूतानि,
न चाहं तेष्व् अवस्थितः
।। 9.4 ।। न च मत्स्थानि
भूतानि, पश्य मे
योगम् ऐश्वरम् । भूतभृन् न च भूतस्थो,
ममात्मा भूतभावनः
।। 9.5 ।। यथाकाशस्थितो नित्यं,
वायुः सर्वत्रगो
महान् । तथा
सर्वाणि भूतानि, मत्स्थानीत्य्
उपधारय
।। 9.6 ।। सर्वभूतानि कौन्तेय,
प्रकृतिं
यान्ति मामिकाम्
। कल्पक्षयो पुनस्
तानि, कल्पादौ
विसृजाम्य्
अहम् ।। 9.7
।। प्रकृतिं स्वाम्
अवष्टभ्य,
विसृजामि
पुनः पुनः
। भूतग्रामम् इमं कृत्स्नम्,
अवशं प्रकृतेर्
वशात् ।।
9.8 ।। न च
मां तानि कर्माणि, निबध्नन्ति
धनञ्जय । उदासीनवद् आसीनम्,
असक्तं तेषु कर्मसु
।। 9.9 ।। मयाध्यक्षेण प्रकृतिः,
सूयते सचराचरम्
। हेतुनानेन कौन्तेय,
जगद् विपरिवर्तते
।। 9.10 ।। अवजानन्ति मां मूढा,
मानुषीं तनुम् आश्रितम्
। परं भावम्
अजानन्तो,
मम भूतमहेश्वरम्
।।9.11 ।। मोघाशा मोघकर्माणो,
मोघज्ञाना
विचेतसः
। राक्षसीम् आसुरीं
चैव, प्रकृतिं
मोहिनीं श्रिताः ।।
9.12 ।। महात्मानस् तु
मां पार्थ, दैवीं
प्रकृतिम्
आश्रिताः
। भजन्त्य् अनन्यमनसो,
ज्ञात्वा
भूतादिम्
अव्ययम्
।। 9.13 ।। सततं कीर्तयन्तो
मां, यतन्तश्च
दृढव्रताः
। नमस्यन्तश्च मां भक्तया,
नित्ययुक्ता
उपासते
।। 9.14 ।। ज्ञानयज्ञेन चाप्य्
अन्ये, यजन्तो माम् उपासते
। एकत्वेन पृथक्त्वेन,
बहुधा विश्वतोमुखम्
।। 9.15 ।। अहं
क्रतुर्
अहं यज्ञः,
स्वधाहम्
अहम् औषधम्
। मन्त्रोऽहम् अहम् एवाज्यम्, अहम् अग्निर्
अहं हुतम्
।। 9.16 ।। पिताहम् अस्य जगतो, माता
धाता पितामहः
। वेद्यं पवित्रम्
ओंकार, ऋक्
साम् यजुर्
एव च ।। 9.17
।। गतिर् भर्ता प्रभुः
साक्षी, निवासः
शरणं सुहृत्
। प्रभवः प्रलयः
स्थानं, निधानं बीजं अव्ययम्
।। 9.18 ।। तपाम्य् अहम्
अहं वर्षं,
निगृह्णाम्य्
उत्सृजामि
च । अमृतं चैव मृत्युश्च,
सद् असच् चाहम्
अर्जुन ।। 9.19 ।। त्रैविद्या मां सोमपाः
पूतपापा यज्ञैर् इष्ट्वा
स्वर्गतिं
प्रार्थयन्ते
। ते पुण्यम्
आसाद्य सुरेन्द्रलोकम् अश्ननन्ति दिव्यान्
दिवि देवभोगान्
।। 9.20 ।। ते तं भुक्त्वा स्वर्गलोकं
विशालं क्षीणे पुण्ये
मर्त्यलोकं
विशन्ति
। एवं
त्रयीधर्मम्
अनुप्रपन्ना गतागतं कामकामा
लभन्ते
।। 9.21 ।। अनन्याश् चिन्तयन्तो
मां, ये जनाः
पर्युपासते
। तेषां नित्याभियुक्तानां,
योगक्षेमं
वहाम्य् अहम् ।। 9.22
।। येऽप्य् अन्यदेवता
भक्ता, यजन्ते श्रद्धयान्विताः
। तेऽपि माम् एव कौन्तेय,
यजन्त्य्
अविधिपूर्वकम्
।। 9.23 ।। अहं
हि सर्वयज्ञानां,
भोक्ता च प्रभुर् एव च । न तु माम्
अभिजानन्ति,
तत्त्वेनातश्
च्यवन्ति
ते ।। 9.24 ।। यान्ति देवव्रता
देवान्, पितृन् यान्ति पितृव्रताः
। भूतानि यान्ति
भूतेज्या,
यान्ति मद्याजिनोऽपि
माम् ।। 9.25
।। पत्रं पुष्पं
फलं तोयं,
यो मे
भक्त्या प्रयच्छति
। तद् अहं भक्त्युपहृतम्,
अश्नामि प्रयतात्मनः
।। 9.26 ।। यत् करोषि
यद् अश्नासि,
यज् जुहोषि
ददासि यत् । यत् तपस्यसि
कौन्तेय,
तत् कुरुष्व
मदर्पणम्
।। 9.27 ।। शुभाशुभफलैर् एवं, मोक्ष्यसे
कर्मबन्धनैः
। संन्यासयोगयुक्तात्मा, विमुक्तो
माम् उपैष्यसि
।। 9.28 ।। समोऽहं सर्वभूतेषु,
न मे द्वेष्योऽस्ति
न प्रियः
। ये भजन्ति तु मां भक्तया,
मयि ते
तेषु चाप्य्
अहम् ।। 9.29 ।। अपि
चेत् सुदुराचारो,
भजते माम्
अनन्यभाक्
। साधुर् एव स मन्तव्यः, सम्यग् व्यवसितो हि सः
।। 9.30 ।। क्षिप्रं भवति,
धर्मात्मा, शश्वच्छान्तिं
निगच्छति
। कौन्तेय प्रतिजानीहि,
न मे भक्तः
प्रणश्यति
।। 9.31 ।। मां
हि पार्थ व्यपाश्रित्य,
येऽपि स्युः पापयोनयः
। स्त्रियो वैश्यास्
तथा शूद्रास्,
तेऽपि यान्ति परां गतिम्
।। 9.32 ।। किं पुनर्
ब्राह्मणाः
पुण्या, भक्ता राजर्षयस्
तथा अनित्यम् असुखं
लोकम्, इमं
प्राप्य भजस्व
माम् ।। 9.33
।। मन्मना भव मद्भक्तो, मद्याजी
मां नमस्कुरु
। माम् एवैष्यसि
युक्त्वैवम्,
आत्मानं मत्परायणः
।। 9.34 ।। ।। ऊँ तत्सदिति राजविद्याराजगुह्ययोगो
नाम नवमोऽध्यायः
।। अथ दशमोऽध्यायः 10. विभूतियोगः श्रीभगवानुवाच – भूय एव महाबाहो, शृणु मे
परमं वचः
। यत् तेऽहं
प्रीयमाणाय,
वक्ष्यामि
हितकाम्यया
।। 10.1 ।। न मे विदुः
सुरगणाः, प्रभवं न महर्षयः । अहम् आदिर्
हि देवानां,
महर्षीणां
च सर्वशः
।। 10.2 ।। यो माम् अजम् अनादिं
च, वेत्ति
लोक महेश्वरम्
। असंमूढः स मर्त्येषु,
सर्वपापैः
प्रमुच्यते
।। 10.3 ।। बुद्धिर् ज्ञानम्
असंमोहः,
क्षमा सत्यं
दमः शमः
। सुखं दुखं भवोऽभावो, भयं चाभयम्
एव च ।। 10.4
।। अहिंसा
समता तुष्टिस्,
तपो दानं यशोऽयशः । भवन्ति भावा भूतानां,
मत्त एव पृथग्विधाः
।। 10.5 ।। महर्षयः सप्त पूर्वे,
चत्वारो मनवस् तथा
। मद्भावा मानसा
जाता, येषां
लोक इमाः प्रजाः ।।
10.6 ।। एतां विभूतिं
योगं च, मम यो वेत्ति तत्त्वतः
। सोऽविकम्पेन योगेन,
युज्यते नात्र संशयः
।। 10.7 ।। अहं
सर्वस्य प्रभवो, मत्तः सर्वं
प्रवर्तते
। इति
मत्वा भजन्ते
मां, बुधा भावसमन्विताः
।। 10.8 ।। मच्चित्ता मद्गतप्राणा,
बोधयन्तः
परस्परम्
। कथयन्तश्च मां नित्यं,
तुष्यन्ति
च रमन्ति
च ।। 10.9 ।। तेषां सततयुक्तानां,
भजतां प्रीतिपूर्वकम्
। ददामि बुद्धियोगं
तं, येन
माम् उपयान्ति
ते ।। 10.10 ।। तेषाम् एवानुकम्पार्थम्,
अहम्अज्ञानजं
तमः । नाशयाम्य् आत्मभावस्थो,
ज्ञानदीपेन
भास्वता
।। 10.11 ।। अर्जुन
उवाच – परं ब्रह्म परं धाम, पवित्रं परमं भवान्
। पुरुषं शास्वतं
दिव्यम्, आदिदेवम् अजं विभुम्
।। 10.12 ।। आहुस् त्वाम्
ऋषयः सर्वे,
देवर्षिर्
नारदस्
तथा । असितो देवलो
व्यासः,
स्वयं चैव
ब्रवीषि मे ।। 10.13 ।। सर्वम् एतद् ऋतं मन्ये,
यन् मां वदसि केशव
। न हि ते भगवन् व्यक्तिं,
विदुर्
देवा न दानवाः
।। 10.14 ।। स्वयम् एवात्मनात्मानं,
वेत्थ त्वं
पुरुषोत्तम । भूतभावन भूतेश,
देवदेव जगत्पते
।। 10.15 ।। वक्तुम् अर्हस्य्
अशेषेण, दिव्या ह्य् आत्मविभूतयः
। याभिर् विभूतिभिर्
लोकान्, इमांस् त्वं
व्याप्य तिष्ठसि
।। 10.16 ।। कथं विद्याम्
अहं योगिंस्,
त्वां
सदा परिचिन्तयन्
। केषु केषु
च भावेषु चिन्त्योऽसि
भगवन् मया
।। 10.17 ।। विस्तरेणात्मनो योगं, विभूतिं च
जनार्दन । भूयः
कथय तृप्तिर्
हि, शृण्वतो
नास्ति मेऽमृतम्
।। 10.18 ।। श्रीभगवानुवाच – हन्त ते कथयिष्यामि,
दिव्या ह्य् आत्मविभूतयः
। प्राधान्यतः
कुरुश्रेष्ठ, नास्त्य् अन्तो विस्तरस्य
मे ।। 10.19 ।। अहम् आत्मा गुडाकेश,
सर्वभूताशयस्थितः
। अहम् आदिश्च
मध्यं च, भूतानाम्
अन्त एव च ।। 10.20 ।। आदित्यानाम् अहं विष्णुर्,
ज्योतिषां
रविर् अंशुमान् मरीचिर् मरुताम्
अस्मि, नक्षत्राणाम्
अहं शशी
।। 10.21 ।। वेदानां सामवेदोऽस्मि,
देवानाम्
अस्मि वासवः । इन्द्रियाणां मनश्चास्मि,
भूतानाम्
अस्मि
चेतना ।। 10.22 ।। रुद्राणां शंकरश्
चास्मि, वित्तेशो
यक्षरक्षसाम्
। वसूनां पावकश्
चास्मि, मेरुः
शिखरिणाम्
अहम् ।। 1.023
।। पुरोधसां च मुख्यं
मां, विद्धि
पार्थ बृहस्पतिम्
। सेनानीनाम् अहं स्कन्दः,
सरसाम् अस्मि सागरः
।। 10.24 ।। महर्षिणां भृगुर
अहं, गिराम्
अस्म्य एकम् अक्षरम्
। यज्ञानां जपयज्ञोऽस्मि,
स्थावराणां
हिमालयः
।। 10.25 ।। अश्वत्थः सर्ववृक्षाणां,
देवर्षिणां
च नारदः । गन्धर्वाणां चित्ररथः,
सिद्धानां
कपिलो मुनिः ।। 10.26
।। उच्चैःश्रवसम् अश्वानां,
विद्धि माम् अमृतोद्भवम्
। ऐरावतं गजेन्द्राणां,
नराणां च नराधिपम्
।। 10.27 ।। आयुधानाम् अहं वज्रं,
धेनुनाम्
अस्मि कामधुक् । प्रजनश् चास्मि
कन्दर्पः,
सर्पाणाम्
अस्मि वासुकिः ।।
10.28 ।। अनन्तश् चास्मि
नागानां, वरुणो यादसाम्
अहम् । पितृणाम् अर्यमा
चास्मि, यमः संयमताम्
अहम् ।। 10.29 ।। प्रह्लादश् चास्मि
दैत्यानां,
कालः कलयताम्
अहम् । मृगाणां च मृगेन्द्रोऽहं,
वैनतेयश्च
पक्षिणाम्
।। 10.30 ।। पवनः पवताम्
अस्मि, रामः शस्त्रभृताम्
अहम् । झषाणां मकरश्
चास्मि, स्रोतसाम्
अस्मि
जाह्नवी ।। 10.31
।। सर्गाणाम् आदिर्
अन्तश्च, मध्यं चैवाहम्
अर्जुन । अध्यात्मविद्या विद्यानां,
वादः प्रवदताम्
अहम् ।। 10.32
।। अक्षराणाम् अकारोऽस्मि,
द्वन्द्वः
सामासिकस्य
च । अहम् एवाक्षयः
कालो, धाताहं
विश्वतोमुखः
।। 10.33 ।। मृत्युः सर्वहरश्चाहम्,
उद्भवश्च
भविष्यताम्
। कीर्तिः श्रीर्
वाक् च नारीणां,
स्मृतिर्
मेधा धृतिः
क्षमा
।। 10.34 ।। बृहत्साम तथा साम्नां,
गायत्री छन्दसाम्
अहम् । मासानां मार्गशीर्षोऽहम्,
ऋतुनां कुसुमाकरः
।। 10.35 ।। द्यूतं छलयताम्
अस्मि, तेजस् तेजस्विनाम्
अहम् जयोऽस्मि व्यवसायोऽस्मि,
सत्त्वं सत्त्ववताम्
अहम् ।। 10.36 ।। वृष्णीनां वासुदेवोऽस्मि,
पाण्डवानां
धनञ्जयः
। मुनीनाम् अप्य्
अहं व्यासः,
कवीनाम्
उशना कविः
।। 10.37 ।। दण्डो दमयताम्
अस्मि, नीतिर् अस्मि जिगीषताम् मौनं चैवास्मि
गुह्यानां,
ज्ञानं ज्ञानवताम्
अहम् ।। 10.38
।। यच् चापि सर्वभूतानां,
बीजं तद्
अहम्
अर्जुन । न तद् अस्ति विना यत्
स्यान्, मया भूतं
चराचरम्
।। 10.39 ।। नान्तोऽस्ति मम दिव्यानां,
विभूतीनां
परंतप । एष तूद्देशतः
प्रोक्तो,
विभूतेर्
विस्तरो मया ।। 10.40 ।। यद्
यद् विभूतिमत्
सत्त्वं, श्रीमद् ऊर्जितम् एव वा
। तद् तद् एवावगच्छ त्वं, मम
तेजोऽशसंभवम्
।। 10.41 ।। अथवा
बहुनैतेन,
किं ज्ञातेन
तवार्जुन
। विष्टभ्याहम् इदं कृत्स्नम्,
एकांशेन स्थितो जगत् ।। 10.42
।। ।। ऊँ तत्सदिति विभूतियोगो
नाम दशमोऽध्यायः
।। अथ एकादशोऽध्यायः 11. विश्वरूपदर्शनयोगः अर्जुन
उवाच – मदनुग्रहाय परमं, गुह्यम् अध्यात्मसंज्ञितम्
। यत् त्वयोक्तं
वचस् तेन,
मोहोऽयं विगतो मम
।। 11.1 ।। भवाप्ययौ हि भूतानां, श्रुतौ विस्तरशो मया । त्वत्तः कमलपत्राक्ष,
माहात्म्यम्
अपि चाव्ययम्
।। 11.2 ।। एवम्
एतद् यथात्थ
त्वम्, आत्मानं
परमेश्वर । द्रष्टुम् इच्छामि
ते रूपम्,
ऐश्वरं
पुरुषोत्तम
।। 11.3 ।। मन्यसे यदि तच्
छक्यं, मया द्रष्टुम्
इति प्रभो
। योगेश्वर
ततो मे
त्वं, दर्शयात्मानम्
अव्ययम् ।। 11.4 ।। श्रीभगवानुवाच – पश्य मे
पार्थ रूपाणि,
शतशोऽथ सहस्रशः । नानाविधानि दिव्यानि,
नानावर्णाकृतीनि
च ।। 11.5 ।। पश्यादित्यान् वसून्
रुद्रान्,
अश्विनौ मरुतस्
तथा । बहून्य अदृष्टपूर्वाणि,
पश्याश्चर्याणि
भारत ।। 11.6 ।। इहैकस्थं जगत् कृत्स्नं, पश्याद्य सचराचरम्
। मम देहे गुडाकेश, यच् चान्यद्
द्रष्टुम्
इच्छसि
।। 11.7 ।। न तु मां शक्यसे
द्रष्टुम्,
अनेनैव स्वचक्षुषा
। दिव्यं ददामि
ते चक्षुः,
पश्य मे
योगम् ऐश्वरम्
।। 11.8 ।। सञ्जय उवाच –
एवम्
उक्तवा ततो राजन्,
महायोगेश्वरो
हरिः । दर्शयामास पार्थाय,
परमं रूपम्
ऐश्वरम्
।। 11.9 ।। अनेकवक्त्रनयनम्, अनेकाद्भुतदर्शनम्
। अनेकदिव्याभरणं, दिव्यानेकोद्यतायुधम्
।। 11.10 ।। दिव्यमाल्याम्बरधरं, दिव्यगन्धानुलेपनम्
। सर्वाश्चर्यमयं देवम्,
अनन्तं विश्वतोमुखम्
।। 11.11 ।। दिवि सूर्यसहस्रस्य,
भवेद् युगपद् उत्थिता । यदि
भाः सदृशी
सा स्याद्,
भासस् तस्य महात्मनः
।। 11.12 ।। तत्रैकस्थं जगत् कृत्स्नं, प्रविभक्तम्
अनेकधा । अपश्यद् देवदेवस्य,
शरीरे पाण्डवस्
तदा ।। 11.13 ।। ततः स विस्मयाविष्टो,
हृष्टरोमा
धनञ्जयः
। प्रणम्य शिरसा
देवं, कृताञ्जलिर्
अभाषत ।।
11.14 ।। अर्जुन
उवाच – पश्यामि देवांस्
तव देव देहे सर्वांस् तथा भूतविशेषसंघान्
। ब्रह्माणम् ईशं कमलासनस्थम्
ऋषींश्च सर्वान्
उरगांश्च
दिव्यान
।। 11.15 ।। अनेकबाहूदरवक्त्रनेत्रं पश्यामि त्वां
सर्वतोऽनन्तरूपम्
। नान्तं न मध्यम्
न पुनस् तवादिं पश्यामि
विश्वेश्वर
विश्वरूप ।। 11.16
।। किरीटिनं गदिनं
चक्रिणं
च तेजोराशिं सर्वतो
दीप्तिमन्तम्
। पश्यामि त्वां
दुर्निरीक्ष्यं
समन्ताद् दीप्तानलार्कद्युतिम् अप्रमेयम्
।। 11.17 ।। त्वम् अक्षरं
परमं वेदितव्यं
त्वम् अस्य विश्वस्य परं निधानम्
। त्वम् अव्ययः
शाश्वतधर्मगोप्ता सनातनस् त्वं पुरुषो मतो मे
।। 11.18 ।। अनादिमध्यान्तम् अनन्तवीर्यम् अनन्तबाहुं शशिसूर्यनेत्रम्
। पश्यामि त्वां
दीप्तहुताशवक्त्रं स्वतेजसा विश्वम्
इदं तपन्तम्
।। 11.19 ।। द्यावापृथिव्योर् इदम् अन्तरं हि व्याप्तं त्वयैकेन
दिशश्च सर्वाः । दृष्ट्वाद्भुतं रूपम्
उग्रं तवेदं लोकत्रयं प्रव्यथितं
महात्मन्
।। 11.20 ।। अमी हि त्वां सुरसंघा
विशन्ति केचिद् भीताः
प्राञ्जलयो
गृणन्ति
। स्वस्तीत्य् उक्तवा
महर्षिसिद्धसंघाः
स्तुवन्ति त्वां
स्तुतिभिः
पुष्कलाभिः
।। 11.21 ।। रुद्रादित्या वसवो
ये च साध्या विश्वेऽश्विनौ मरुतश्
चोष्मपाश्च
। गन्धर्वयक्षासुरसिद्धसंघा वीक्षन्ते त्वां
विस्मिताश्
चैव सर्वे
।। 11.22 ।। रूपं महत् ते बहुवक्त्रनेत्रं
महाबाहो बहुबाहूरुपादम्
। बहूदरं बहुदंष्ट्राकरालं दृष्ट्वा लोकाः
प्रव्यथितास्
तथाऽहम् ।। 11.23 ।। नभःस्पृशं दीप्तम्
अनेकवर्णं
व्यात्ताननं दीप्तविशालनेत्रम्
। दृष्ट्वा हि त्वां प्रव्यथितान्तरात्मा धृतिं न विन्दामि
शमं च विष्णो
।। 11.24 ।। दंष्ट्राकरालानि च ते मुखानि दृष्टवैव कालानलसन्निभानि
। दिशो न जाने न लभे च शर्म प्रसीद देवेश जगन्निवास
।। 11.25 ।। अमी च त्वां
धृतराष्ट्रस्य
पुत्राः सर्वे सहैवावनिपालसंघैः
। भीष्मो द्रोणः
सूतपुत्रस्
तथासौ सहास्मदीयैर् अपि योधमुख्यैः
।। 11.26 ।। वक्त्राणि ते त्वरमाणा विशन्ति दंष्ट्राकरालानि भयानकानि
। केचिद् विलग्ना
दशनान्तरेषु संदृश्यन्ते चूर्णितैर्
उत्तमाङ्गैः
।। 11.27 ।। यथा
नदीनां बहवोऽम्बुवेगाः समुद्रम् एवाभिमुखा
द्रवन्ति
। तथा
तवामी नरलोकवीरा
विशन्ति वक्त्राण्य्
अभिविज्वलन्ति
।। 11.28 ।। यथा
प्रदीप्तं
ज्वलनं पतङ्गा विशन्ति नाशाय
समृद्धवेगाः
।। 11.29 ।। लेलिह्यसे ग्रसमानः
समन्ताल्
लोकान् समग्रान्
वदनैर् जवलद्भिः
। तेजोभिर् आपूर्य
जगत् समग्रं भासस् तवोग्राः
प्रतपन्ति
विष्णो
।। 11.30 ।। आखयाहि मे को भवान् उग्ररूपो नमोऽस्तु ते देववर प्रसीद
। विज्ञातुम् इच्छामि
भवन्तम् आद्यं न हि प्रजानामि
तव प्रवृत्तिम्
।। 11.31 ।। श्रीभगवानुवाच – कालोऽस्मि लोकक्षयकृत्
प्रवृद्धो
लोकान् समाहर्तुम्
इह प्रवृत्तः
। ऋतेऽपि त्वां
न भविष्यति
सर्वे येऽवस्थिताः प्रत्यनीकेषु
योद्धाः
।। 11.32 ।। तस्मात् त्वम्
उत्तिष्ठ
यशो लभस्व
जित्वा शत्रुन्
भुङ्क्ष्व
राज्यं समृद्धम्
। मयैवैते निहताः
पूर्वम् एव निमित्तमात्रं भव सव्यसाचिन्
।। 11.33 ।। द्रोणं च भीष्मं
च जयद्रथं
च कर्णं तथान्यान्
अपि योद्धवीरान्
। मया हतांस्
त्वं जहि
मा वयथिष्ठा
युध्यस्व जेतासि
रणे सपत्नान्
।। 11.34 ।। सञ्जय उवाच – एतच् छ्रुत्वा
वचनं केशवस्य
कृताञ्जलिर् वेपमानः
किरीटी । नमस्कृत्वा भूय एवाह कृष्णं सगद्गदं भीतभीतः
प्रणम्य
।। 11.35 ।। अर्जुन
उवाच – स्थाने हृषीकेश तव प्रकीर्त्या
जगत् प्रहृष्यत्य्
अनुरज्यते
च । रक्षांसि भीतानि
दिशो द्रवन्ति सर्वे नमस्यन्ति
च सिद्धसंघाः
।। 11.36 ।। कस्माच् च ते न
नमेरन् महात्मन् गरीयसे ब्रह्मणोऽप्य्
आदिकर्त्रे
। अनन्त देवेश जगन्निवास त्वम् अक्षरं
सद् असत् तत्परं यत् ।। 11.37 ।। त्वम् आदिदेवः
पुरुषः पुराणस् त्वम् अस्य विश्वस्य परं निधानम्
। वेत्तासि वेद्यं
च परं च
धाम त्वया ततं विश्वम् अनन्तरूप
।। 11.38 ।। वायुर् यमोऽग्रिर्
वरुणः शशाङ्कः प्रजापतिस् त्वं प्रपितामहश्च
। नमो
नमस्तेऽस्तु
सहस्रकृत्वः पुनश्च
भूयोऽपि
नमो नमस्ते ।।
11.39 ।। नमः पुरस्ताद्
अथ पृष्ठतस्
ते नमोऽस्तु ते सर्वत एव
सर्व । अनन्तवीर्यामितविक्रमस् त्वं सर्वं समाप्नोषि
ततोऽसि सर्वः ।। 11.40
।। सखेति मत्वा
प्रसभं
यद् उक्तं हे
कृष्ण हे यादव
हे सखेति
। अजानता महिमानं
तवेदं मया प्रमादात्
प्रणयेन वापि ।। 11.41
।। यच् चावहासार्थम्
असत्कृतोऽसि विहारशय्यासनभोजनेषु । एकोऽथवाप्य् अच्युत
तत्समक्षं
तत्
क्षामये त्वाम् अहम्अप्रमेयम्
।। 11.42 ।। पितासि लोकस्य
चराचरस्य त्वम् अस्य पूज्यश्च गुरुर् गरीयान् । न त्वत्समोऽस्त्य्
अभ्यधिकः
कुतोऽन्यो
लोकत्रयेऽप्य् अप्रतिमप्रभाव
।। 11.43 ।। तस्मात् प्रणम्य
प्रणिधाय
कायं प्रसादये त्वाम्
अहम्ईशम्
ईड्यम् । पितेव पुत्रस्य
सखेव सख्युः प्रियः प्रियायार्हसि
देव सोढुम्
।। 11.44 ।। अदृष्टपूर्वं हृषितोऽस्मि
दृष्टवा भयेन च प्रव्यथितं
मनो मे
। तद् एव मे दर्शय
देव रूपं प्रसीद देवेश जगन्निवास
।। 11.45 ।। किरीटिनं गदिनं
चक्रहस्तम् इच्छामि त्वां
द्रष्टुम्
अहं तथैव
। तेनैव रूपेण
चतुर्भुजेन
सहस्रबाहो भव विश्वमूर्ते
।। 11.46 ।। श्रीभगवानुवाच – मया प्रसन्नेन
तवार्जुनेदं रूपं परं दर्शितम् आत्मयोगात्
। तेजोमयं विश्वम्
अनन्तं आद्यं यन् मे त्वदन्येन
न दृष्टपूर्वम्
।। 11.47 ।। न वेदयज्ञाध्ययनैर्
न दानैर् न च क्रियाभिर्
न तपोभिर्
उग्रैः । एवंरूपः शक्य
अहं नृलोके
द्रष्टुं त्वदन्येन
कुरुप्रवीर
।। 11.48 ।। मा ते
व्यथा मा
च विमूढभावो दृष्टवा रूपं घोरम् ईदृङ्ममेदम्
। वयपेतभीः प्रीतमनाः
पुनस् त्वं तद् एव मे रूपम्
इदं प्रपश्य
।। 11.49 ।। सञ्जय उवाच – इत्य अर्जुनं
वासुदेवस्
तथोक्तवा
स्वकं रूपं दर्शयामास
भूयः । आश्वासयामास च भीतम्
एनं भूत्वा पुनः सौम्यवपुर्
महात्मा ।। 11.50
।। अर्जुन
उवाच – दृषट्वेदं मानुषं
रूपं, तव
सौम्यं
जनार्दन । इदानीम् अस्मि
संवृत्तः,
सचेताः प्रकृतिं गतः ।। 11.51 ।। श्रीभगवानुवाच – सुदुर्दर्शम् इदं रूपं, दृषटवानसि
यन् मम
। देवा
अप्य अस्य
रूपस्य, नित्यं दर्शनकाङ्क्षिणः
।। 11.52 ।। नाहं वेदैर्
न तपसा, न दानेन
न चेज्यया
। शक्य एवंविधो
द्रष्टुं,
दृष्टवानसि
मां यथा ।। 11.53 ।। भक्तया तव् अनन्यया शक्य, अहम्एवंविधोऽर्जुन
। ज्ञातुं द्रष्टुं
च तत्त्वेन,
प्रवेष्टुं
च परंतप
।। 11.54 ।। मत्कर्मकृन् मत्परमो,
मद्भक्तः
सङ्गवर्जितः
। निर्वैरः सर्वभूतेषु,
यः स माम्
एति पाण्डव
।। 11.55 ।। ।। ऊँ तत्सदिति विश्वरूपदर्शनयोगो
नाम एकादशोऽध्यायः
।। अथ द्वादशोऽध्यायः 12. भक्तियोगः अर्जुन
उवाच – एवं
सततयुक्ता
ये, भक्तास्
त्वां पर्युपासते
। ये चाप्य् अक्षरम् अव्यक्तं, तेषां के योगवित्तमाः
।। 12.1 ।। श्रीभगवानुवाच – मय्य् आवेश्य
मनो ये
मां, नित्ययुक्ता
उपासते । श्रद्धया परयोपेतास्,
ते मे
युक्ततमा
मताः ।। 12.2
।। ये
त्व अक्षरम्
अनिर्देश्यम्,
अव्यक्तं
पर्युपासते
। सर्वत्रगम् अचिन्त्यं
च, कूटस्थम्
अचलं ध्रुवम्
। ।। 12.3 ।। संनियम्येन्द्रियग्रामं, सर्वत्र समबुद्धयः
। ते प्राप्नुवन्ति
माम् एव,
सर्वभूतहिते
रताः ।। 12.4
।। क्लेशोऽधिकतरस् तेषाम्,
अव्यक्तासक्तचेतसाम्
। अव्यक्ता हि गतिर् दुःखं,
देहवद्भिर्
अवाप्यते
।। 12.5।। ये तु सर्वाणि
कर्माणि, मयि संन्यस्य
मत्पराः
। अनन्येनैव योगेन,
मां ध्यायन्त
उपासते
।। 12.6 ।। तेषाम् अहं समुद्धर्ता,
मृत्युसंसारसागरात्
। भवामि नचिरात्
पार्थ, मय्य्
आवेशितचेतसाम्
।। 12.7 ।। मय्येव मन आधत्स्व, मयि बुद्धिं
निवेशय । निवसिष्यसि मय्येव,
अत ऊर्ध्वं
न संशयः
।। 12.8 ।। अथ चित्तं
समाधातुं,
न शक्नोषि
मयि स्थिरम्
। अभ्यासयोगेन ततो,
माम् इच्छाप्तुं
धनञ्जय ।। 12.9 ।। अभ्यासेऽप्य् असमर्थोऽसि,
मत्कर्मपरमो
भव । मदर्थम् अपि कर्माणि,
कुर्वन् सिद्धिम् अवाप्स्यसि
।। 12.10 ।। अथैतद् अप्य्
अशक्तोऽसि,
कर्तुं मद्योगम् आश्रितः । सर्वकर्मफलत्यागं, ततः
कुरु यतात्मवान्
।। 12.11 ।। श्रेयो हि ज्ञानम् अभ्यासाज्,
ज्ञानाद्
ध्यानं विशिष्यते
। ध्यानात् कर्मफलत्यागस्,
त्यागाच्
छान्तिर्
अनन्तरम्
।। 12.12 ।। अद्वेष्टा सर्वभूतानां,
मैत्रः
करुण एव च
। निर्ममो निरहंकारः,
समदुःखसुखः
क्षमी ।। 12.13 ।। संतुष्टः सततं
योगी, यतात्मा
दृढनिश्चयः
। मय्य् अर्पितमनोबुद्धिर्,
यो मद्भक्तः
स मे प्रियः
।। 12.14 ।। यस्मान् नोद्विजते
लोको, लोकान्
नोद्विजते
च यः हर्षामर्षभयोद्वेगैर्, मुक्तो
यः स च मे
प्रियः
।। 12.15 ।। अनपेक्षः शुचिर्
दक्ष, उदासीनो
गतव्यथः
। सर्वारम्भपरित्यागी, यो मद्भक्तः
स मे प्रियः
।। 12.16 ।। यो न हृष्यति
न द्वेष्टि,
न शोचति न काङ्क्षति
। शुभाशुभपरित्यागी, भक्तिमान्
यः स मे
प्रियः ।।
12.17 ।। समः शत्रौ
च मित्रे
च, तथा मानापमानयोः
। शीतोष्णसुखदुःखेषु, समः सङ्गविवर्जितः
।। 12.18 ।। तुल्यनिन्दास्तुतिर्, मौनी, संतुष्टो
येन केनचित्
। अनिकेतः स्थिरमतिर्,
भक्तिमान्
मे प्रियो
नरः
।। 12.19 ।। ये तु धर्म्यामृतम्
इदं, यथोक्तं
पर्युपासते
। श्रद्दधाना मत्परमा,
भक्तास् तेऽतीव मे प्रियाः ।। 12.20 ।। ।। ऊँ तत्सदिति भक्तियोगो
नाम द्वादशोऽध्यायः
।। अथ त्रयोदशोऽध्यायः 13. क्षेत्रक्षेत्रज्ञविभागयोगः श्रीभगवानुवाच – इदं शरीरं
कौन्तेय, क्षेत्रम्
इत्य अभिधीयते
। एतद् यो वेत्ति तं प्राहुः,
क्षेत्रज्ञ
इति तद्विदः
।। 13.1 ।। क्षेत्रज्ञं चापि
मां विद्धि,
सर्वक्षेत्रेषु
भारत । क्षेत्रक्षेत्रज्ञयोर् ज्ञानं,
यत् तज्
ज्ञानं मतं मम ।।
13.2 ।। तत्
क्षेत्रं
यच् च यादृक्
च, यद्विकारि
यतश्च यत् । स च यो यत्प्रभावश्च,
तत् समासेन
मे श्रृणु
।। 13.3 ।। ऋषिभिर् बहुधा गीतं,
छन्दोभिर्
विविधैः पृथक् । ब्रह्मसूत्रपदैश्चैव, हेतुमद्भिर्
विनिश्चितैः
।। 13.4 ।। महाभूतान्य् अहंकारो,
बुद्धिर्
अव्यक्तम्
एव च । इन्द्रियाणि दशैकं
च, पञ्च चेन्द्रियगोचराः
।। 13.5 ।। इच्छा
द्वेषः सुखं दुःखं,
संघातश्चेतना
धृतिः । एतत् क्षेत्रं
समासेन, सविकारम् उदाहृतम्
।। 13.6 ।। अमानित्वम् अदम्भित्वम्,
अहिंसा क्षान्तिर्
आर्जवम्
। आचार्योपासनं शौचं, स्थैर्यम्
आत्मविनिग्रहः
।। 13.7 ।। इन्द्रियार्थेषु वैराग्यम्,
अनहंकार एव च । जन्ममृत्युजराव्याधि, दुःखदोषानुदर्शनम्
।। 13.8 ।। असक्तिर् अनभिष्वङ्गः,
पुत्रदारगृहादिषु
। नित्यं च समचित्तत्वम्,
इष्टानिष्टोपपत्तिषु
।। 13.9 ।। मयि चानन्ययोगेन,
भक्तिर् अव्यभिचारिणी
। विविक्तदेशसेवित्वम्, अरतिर्
जनसंसदि
।। 13.10 ।। अध्यात्मज्ञाननित्यत्वं, तत्त्वज्ञानार्थदर्शनम्
। एतज् ज्ञानम्
इति प्रोक्तम्,
अज्ञानं
यद् अतोऽन्यथा ।। 13.11 ।। ज्ञेयं यत्
तत् प्रवक्ष्यामि,
यज् ज्ञात्वा
अमृतम् अश्नुते । अनादिमत् परं
ब्रह्म, न सत्
तन् नासद्
उच्यते
।। 13.12 ।। सर्वतःपाणिपादं तत्, सर्वतोऽक्षिशिरोमुखम्
। सर्वतःश्रुतिमल् लोके, सर्वम् आवृत्य तिष्ठति
।। 13.13 ।। सर्वेन्द्रियगुणाभासं, सर्वेन्द्रियविवर्जितम्
। असक्तं सर्वभृच्
चैव, निर्गुणं
गुणभोक्तृ
च ।। 13.14 ।। बहिर् अन्तश्च
भूतानाम्,
अचरं चरम्
एव च । सूक्ष्मत्वात् तद् अविज्ञेयं,
दूरस्थं चान्तिके
च तत् ।। 13.15 ।। अविभक्तं च भूतेषु,
विभक्तं इव च स्थितम्
। भूतभर्तृ
च तज् ज्ञेयं,
ग्रसिष्णु
प्रभविष्णु
च ।। 13.16 ।। ज्योतिषाम् अपि तज्
ज्योतिस्,
तमसः परम्
उच्यते ज्ञानं ज्ञेयं
ज्ञानगम्यं,
हृदि सर्वस्य
विष्ठितम्
।। 13.17 ।। इति
क्षेत्रं
तथा ज्ञानं,
ज्ञेयं चोक्तं समासतः । मद्भक्त एतद् विज्ञाय, मद्भावायोपपद्यते
।। 13.18 ।। प्रकृतिं पुरुषं
चैव, विद्धय्
अनादी उभाव अपि । विकारांश्च गुणांश्चैव,
विद्धि प्रकृतिसंभवान्
।। 13.19 ।। कार्यकरणकर्तृत्वे, हेतुः
प्रकृतिर्
उच्यते । पुरुषः सुखदुःखानां,
भोक्तृत्वे
हेतुर् उच्यते ।।
13.20 ।। पुरुषः प्रकृतिस्थो
हि, भुङ्कते
प्रकृतिजान्
गुणान् । कारणं गुण सङ्गोऽस्य,
सदसद्योनिजन्मसु
।। 13.21 ।। उपद्रष्टानुमन्ता च, भर्ता भोक्ता महेश्वरः
। परमात्मेति चाप्य्
उक्तो, देहेऽस्मिन्
पुरुषः परः ।। 13.22 ।। य
एवं वेत्ति
पुरुषं, प्रकृतिं
च गुणैः
सह । सर्वथा
वर्तमानोऽपि,
न स भूयोऽभिजायते
।। 13.23 ।। ध्यानेनात्मनि पश्यन्ति,
केचिद् आत्मानमात्मना
। अन्ये सांख्येन
योगेन, कर्मयोगेन
चापरे ।।
13.24 ।। अन्ये त्व्
एवम् अजानन्तः
श्रुत्वान्येभ्य
उपासते । तेऽपि चातितरन्त्य्
एव, मृत्युं
श्रुतिपरायणाः
।। 13.25 ।। यावत् संजायते
किञ्चित्,
सत्त्वं स्थावरजङ्गमम्
। क्षेत्रक्षेत्रज्ञसंयोगात्, तद् विद्धि भरतर्षभ
।। 13.26 ।। समं सर्वेषु
भूतेषु, तिष्ठन्तं
परमेश्वरम्
। विनश्यत्स्व् अविनश्यन्तं,
यः पश्यति
स पश्यति ।।
13.27 ।। समं पश्यन्
हि
सर्वत्र, समवस्थितम्
ईश्वरम्
। न हिनस्त्य्
आत्मनात्मानं,
ततो याति
परां गतिम्
।। 13.28 ।। प्रकृत्यैव च कर्माणि,
क्रियमाणानि
सर्वशः । यः पश्यति
तथात्मानम्,
अकर्तारं
स पश्यति
।। 13. 29 ।। यदा
भूतपृथग्भावम्,
एकस्थम् अनुपश्यति
। तत एव च विस्तारं,
ब्रह्म संपद्यत्
तदा ।। 13.30 ।। अनादित्वान् निर्गुणत्वात्,
परमात्मायम्
अव्ययः । शरीरस्थोऽपि कौन्तेय,
न करोति न लिप्यते
।। 13.31 ।। यथा
सर्वगतं सौक्ष्म्याद्,
आकाशं नोपलिप्यते
। सर्वत्रावस्थितो देहे, तथात्मा नोपलिप्यते
।। 13.32 ।। यथा
प्रकाशयत्य्
एकः, कृत्स्नं
लोकम् इमं रविः
। क्षेत्रं क्षेत्री
तथा कृत्सनं,
प्रकाशयति
भारत ।। 13.33 ।। क्षेत्रक्षेत्रज्ञयोर् एवम्, अन्तरं
ज्ञानचक्षुषा
। भूतप्रकृतिमोक्षं च, ये विदुर्
यान्ति ते परम्
।। 13.34 ।। ।। ऊँ तत्सदिति क्षेत्रक्षेत्रज्ञविभागयोगो
नाम त्रयोदशोऽध्यायः
।। अथ चतुर्दशोऽध्यायः 14. गुणत्रयज्ञविभागयोगः श्रीभगवानुवाच – परं भूयः प्रवक्ष्यामि,
ज्ञानानां
ज्ञानम् उत्तमम् । यज् ज्ञात्वा
मुनयः सर्वे, परां
सिद्धिम्
इतो गताः
।। 14.1 ।। इदं ज्ञानम्
उपाश्रित्य,
मम साधर्म्यम्
आगताः । सर्गेऽपि नोपजायन्ते,
प्रलये न व्यथन्ति
च ।। 14.2 ।। मम योनिर्
महद्
ब्रह्म, तस्मिन्
गर्भं दधाम्य् अहम् । संभवः सर्वभूतानां,
ततो भवति
भारत ।। 14.3 ।। सर्वयोनिषु कौन्तेय,
मूर्तयः संभवन्ति याः । तासां ब्रह्म महद् योनिर्,
अहं बीजप्रदः
पिता ।। 14.4 ।। सत्त्वं रजस्
तम इति, गुणाः
प्रकृतिसंभवाः
। निबध्नन्ति महाबाहो,
देहे देहिनम्
अव्ययम्
।। 14.5 ।। तत्र सत्त्वं
निर्मलत्वात्,
प्रकाशकम्
अनामयम्
। सुखसङ्गेन बध्नाति,
ज्ञानसङ्गेन
चानघ ।। 14.6
।। रजो
रागात्मकं
विद्धि, तृष्णासङ्गसमुद्भवम्
। तन् निबध्नाति
कौन्तेय, कर्मसङ्गेन
देहिनम्
।। 14.7 ।। तमस् त्व् अज्ञानजं विद्धि, मोहनं सर्वदेहिनाम्
। प्रमादालस्यनिद्राभिस्, तन् निबध्नाति
भारत ।। 14.8 ।। सत्त्वं सुखे सञ्जयति, रजः कर्मणि
भारत । ज्ञानम् आवृत्य
तु तमः,
प्रमादे सञ्जयत्य्
उत ।। 14.9 ।। रजस् तमश् चाभिभूय, सत्त्वं भवति भारत
। रजः सत्त्वं
तमश्चैव, तमः सत्त्वं
रजस् तथा
।। 14.10 ।। सर्वद्वारेषु देहेऽस्मिन्,
प्रकाश उपजायते
। ज्ञानं यदा तदा विद्याद्, विवृद्धं सत्त्वम् इत्य् उत
।। 14.11 ।। लोभः प्रवृतिर्
आरम्भः, कर्मणाम् अशमः स्पृहा
। रजस्य एतानि
जायन्ते, विवृद्धे भरतर्षभ
।। 14.12 ।। अप्रकाशोऽप्रवृत्तिश्च, प्रमादो
मोह एव च । तमस्य एतानि
जायन्ते, विवृद्धे कुरुनन्दन
।। 14.13 ।। यदा
सत्त्वे प्रवृद्धे
तु, प्रलयं
याति देहभृत्
। तदोत्तमविदां लोकान्,
अमलान् प्रतिपद्यते
।। 14.14 ।। रजसि प्रलयं
गत्वा, कर्मसङ्गिषु
जायते । तथा
प्रलीनस्
तमसि, मूढयोनिषु
जायते ।।
14.15 ।। कर्मणः
सुकृतस्याहुः,
सात्त्विकं
निर्मलं फलम् । रजसस् तु फलं दुःखम्,
अज्ञानं तमसः फलम्
।। 14.16 ।। सत्त्वात् सञ्जायते
ज्ञानं, रजसो लोभ एव च । प्रमादमोहौ तमसो, भवतोऽज्ञानम्
एव च ।। 14.17
।। ऊर्ध्वं गच्छन्ति
सत्त्वस्था,
मध्ये तिष्ठन्ति
राजसाः जघन्यगुणवृत्तिस्था, अधो गच्छन्ति तामसाः ।।
14.18 ।। नान्यं गुणेभ्यः
कर्तारं,
यदा द्रष्टानुपश्यति
। गुणेभ्यश्च परं वेत्ति, मद्भावं सोऽधिगच्छति
।। 14.19 ।। गुणान् एतान्
अतीत्य त्रीन्, देही देहसमुद्भवान्
। जन्ममृत्युजरादुःखैर्, विमुक्तोऽमृतम्
अश्नुते
।। 14.20 ।। अर्जुन
उवाच – कैर् लिङ्गैस्
त्रीन् गुणान् एतान्, अतीतो
भवति प्रभो
। किमाचारः कथं चैतांस्, त्रीन् गुणान् अतिवर्तते
।। 14.21 ।। श्रीभगवानुवाच – प्रकाशं च प्रवृत्तिं
च, मोहम् एव च पाण्डव
। न द्वेष्टि
संप्रवृत्तानि,
न निवृत्तानि
काङ्क्षति
।। 14.22 ।। उदासीनवद् आसीनो,
गुणैर् यो न विचाल्यते
। गुणा
वर्तन्त इत्य एव,
योऽवतिष्ठति
नेङ्गते
।। 14.23 ।। समदुःखसुखः स्वस्थः,समलोष्टाश्मकाञ्चनः
। तुल्यप्रियाप्रियो धीरस्,
तुल्यनिन्दात्मसंस्तुतिः
।। 14.24 ।। मानापमानयोस् तुल्यस्,
तुल्यो मित्रारिपक्षयोः
। सर्वारम्भपरित्यागी, गुणातीतः
स उच्यते
।। 14.25 ।। मां
च योऽव्यभिचारेण,
भक्तियोगेन
सेवते । स गुणान् समतीत्यैतान्,
ब्रह्मभूयाय
कल्पते
।। 14.26 ।। ब्रह्मणो हि प्रतिष्ठाहम्,
अमृतस्याऽव्ययस्य
च । शाश्वतस्य च धर्मस्य,
सुखस्यैकान्तिकस्य
च ।। 14.27 ।। ।। ऊँ तत्सदिति गुणत्रयविभागयोगो
नाम चतुर्दशोऽध्यायः
।। अथ पञ्चदशोऽध्यायः 15. पुरुषोत्तमयोगः श्रीभगवानुवाच - ऊर्ध्वमूलम् अधःशाखम्
, अश्वत्थं
प्राहुर्
अव्ययम्
। छन्दांसि यस्य पर्णानि, यस् तं
वेद स वेदवित्
।। 15.1 ।। अधश्चोर्ध्वं प्रसृतास्
तस्य
शाखा गुणप्रवृद्धा विषयप्रवालाः
। अधश्च मूलान्य्
अनुसंततानि कर्मानुबन्धीनि मनुष्यलोके ।।
15.2।। न रूपम् अस्येह तथोपलभ्यते नान्तो न चादिर्
न च संप्रतिष्ठा
। अश्वत्थम् एनं
सुविरूढमूलम् असङ्गशस्त्रेण दृढेण
छित्त्वा
।। 15.3।। ततः पदं
तत् परिमार्गितव्यं यस्मिन् गता
न निवर्तन्ति
भूयः । तम् एव
चाद्यं पुरुषं प्रपद्ये यतः प्रवृत्तिः
प्रसृता पुराणी ।।
15.4 ।। निर्मानमोहा जितसङ्दोषा अध्यात्मनित्या विनिवृत्तकामाः
। द्वन्द्वैर् विमुक्ताः
सुखदुःखसंज्ञैर्
गच्छन्त्य् अमूढाः
पदम् अव्ययं
तत् ।। 15.5 ।। न तद् भासयते
सूर्यो, न शशाङ्को न पावकः । यद्
गत्वा न निवर्तन्ते,
तद् धाम परमं मम
।। 15.6 ।। ममैवांशो जीवलोके,
जीवभूतः सनातनः । मनःषष्ठानीन्द्रियाणि, प्रकृतिस्थानि
कर्षति
।। 15.7 ।। शरीरं यद् अवाप्नोति,
यच् चाप्य्
उत्क्रामतीश्वरः
। गृहीत्वैतानि संयाति,
वायुर् गन्धान् इवाशयात्
।। 15.8 ।। श्रोत्रं चक्षुः
स्पर्शनं
च, रसनं घ्राणम् एव च । अधिष्ठाय मनश्चायं,
विषयान् उपसेवते
।। 15.9 ।। उत्क्रामन्तं स्थितं
वापि, भुञ्जानं
वा गुणान्वितम्
। विमूढा नानुपश्यन्ति,
पश्यन्ति
ज्ञानचक्षुषः
।। 15.10 ।। यतन्तो योगिनश्चैनं,
पश्यन्त्य्
आत्मन्य्
अवस्थितम्
। यतन्तोऽप्य् अकृतात्मानो,
नैनं पश्यन्त्य्
अचेतसः
।। 15.11 ।। यद्
आदित्यगतं
तेजो, जगद्
भासयतेऽखिलम्
। यच् चन्द्रमसि
यच् चाग्नौ,
तत् तेजो विद्धि मामकम् ।।
15.12 ।। गाम् आविश्य
च भूतानि, धारयाम्य्
अहम्ओजसा
। पुष्णामि चौषधीः
सर्वाः, सोमो भूत्वा
रसात्मकः
।। 15.13 ।। अहं
वैश्वानरो
भूत्वा, प्राणिनां
देहम् आश्रितः । प्राणापानसमायुक्तः, पचाम्य्
अन्नं चतुर्विधम्
।। 15.14 ।। सर्वस्य चाहं हृदि संनिविष्टो मत्तः स्मृतिर्
ज्ञानम् अपोहनं च । वेदैश्च सर्वैर्
अहमेव वेद्यो
वेदान्तकृद् वेदविद्
एव चाहम्
।। 15.15 ।। द्वाव इमौ पुरुषौ लोके, क्षरश्चाक्षर
एव च । क्षरः सर्वाणि
भूतानि, कूटस्थोऽक्षर
उच्यते
।। 15.16 ।। उत्तमः पुरुषस्
त्व् अन्यः,
परमात्मेत्य्
उदाहृतः
। यो लोकत्रयम्
आविश्य, बिभर्त्य
अव्यय ईश्वरः
।। 15.17 ।। यस्मात् क्षरम्
अतीतोऽहम्,
अक्षराद्
अपि चोत्तमः
। अतोऽस्मि लोके वेदे च, प्रथितः
पुरुषोत्तमः
।। 15.18 ।। यो माम्
एवम् असंमूढो,
जानाति पुरुषोत्तमम्
। स सर्वविद् भजति मां, सर्वभावेन
भारत ।। 15.19 ।। इति
गुह्यतमं
शास्त्रम्,
इदम् उक्तं
मयाऽनघ । एतद् बुद्ध्वा
बुद्धिमान्
स्यात्, कृतकृत्यश्च
भारत ।। 15. 20 ।। ।। ऊँ तत्सदिति पुरुषोत्तमयोगो
नाम पञ्चदशोऽध्यायः
।। अथ षोडशोऽध्यायः 16. दैवासुरसंपद्विभागयोगः श्रीभगवानुवाच – अभयं सत्त्वसंशुद्धिर्,
ज्ञानयोगव्यवस्थितिः
। दानं दमश्च
यज्ञश्च, स्वाध्यायस्
तप आर्जवम्
।। 16.1 ।। अहिंसा
सत्यम् अक्रोधस्, त्यागः शान्तिर् अपैशुनम्
। दया
भूतेष्व्
अलोलुप्तवं,
मार्दवं ह्रीर् अचापलम्
।। 16.2 ।। तेजः क्षमा धृतिः
शौचम्, अद्रोहो नातिमानिता । भवन्ति संपदं
दैवीम्, अभिजातस्य
भारत ।। 16.3 ।। दम्भो दर्पोऽभिमानश्च,
क्रोध पारुष्यम्
एव च । अज्ञानं चाभिजातस्य,
पार्थ संपदम्
आसुरीम्
।। 16.4 ।। दैवी
संपद् विमोक्षाय,
निबन्धयासुरी
मता । मा शुचः संपदं दैवीम्,
अभिजातोऽसि
पाण्डव
।। 16.5 ।। द्वौ भूतसर्गौ
लोकेऽस्मिन्,
दैव आसुर
एव च । दैवो विस्तरशः
प्रोक्त, आसुरं
पार्थ मे श्रृणु ।।
16.6 ।। प्रवृत्तिं च निवृत्तिं
च, जना न विदुर्
आसुराः । न शौचं नापि
चाचारो, न सत्यं तेषु
विद्यते
।। 16.7 ।। असत्यम् अप्रतिष्ठं
ते, जगद्
आहुर् अनीश्वरम्
। अपरस्परसंभूतं, किम् अन्यत् कामहैतुकम्
।। 16.8 ।। एतां दृष्टिम्
अवष्टभ्य,
नष्टात्मनोऽल्पबुद्धयः
। प्रभवन्तय् उग्रकर्माणः,
क्षयाय जगतोऽहिताः
।। 16.9 ।। कामम् आश्रित्य
दुष्पूरं,
दम्भमानमदान्विताः
। मोहाद् गृहीत्वाऽसद्ग्राहान्,
प्रवर्तन्तेऽशुचिव्रताः
।। 16.10 ।। चिन्ताम् अपरिमेयां
च, प्रलयान्ताम्
उपाश्रिताः
। कामोपभोगपरमा, एतावद्
इति निश्चिताः
।। 16.11 ।। आशापाशशतैर् बद्धाः,
कामक्रोधपरायणाः
। ईहन्ते कामभोगार्थम्,
अन्यायेनार्थसञ्चयान्
।। 16.12 ।। इदम् अद्य मया
लब्धम्, इमं प्राप्स्ये
मनोरथम्
। इदम् अस्तीदम्
अपि मे, भविष्यति पुनर् धनम्
।। 16.13 ।। असौ मया हतः शत्रुर्,
हनिष्ये चापरान्
अपि । ईश्वरोऽहम् अहं भोगी, सिद्धोऽहं
बलवान्
सुखी ।। 16.14 ।। आढ्योऽभिजनवान् अस्मि,
कोऽन्योऽस्ति
सदृशो मया यक्ष्ये दास्यामि
मोदिष्य, इत्य् अज्ञानविमोहिताः
।। 16.15 ।। अनेकचित्तविभ्रान्ता, मोहजालसमावृताः
। प्रसक्ताः कामभोगेषु,
पतन्ति नरकेऽशुचौ
।। 16.16 ।। आत्मसंभाविताः स्तब्धा,
धनमानमदान्विताः
। यजन्ते नामयज्ञैस्
ते, दम्भेनाऽविधिपूर्वकम्
।। 16.17 ।। अहंकारं बलं दर्पं, कामं
क्रोधं च संश्रिताः
। माम् आत्मपरदेहेषु,
प्रद्विषन्तोऽभ्यसूयकाः
।। 16.18 ।। तान् अहं द्विषतः
क्रूरान्,
संसारेषु
नराधमान्
। क्षिपाम्य् अजस्रम्
अशुभान्, आसुरीष्व्
एव योनिषु
।। 16.19 ।। आसुरीं योनिम्
आपन्ना, मूढा जन्मनि
जन्मनि । माम् अप्राप्यैव
कौन्तेय, ततो
यान्त्य्
अधमां गतिम् ।। 16.20
।। त्रिविधं नरकस्येदं,
द्वारं नाशनम् आत्मनः । कामः क्रोधस्
तथा लोभस्,
तस्माद् एतत् त्रयं
त्यजेत् ।।
16.21 ।। एतैर् विमुक्तः
कौन्तेय, तमोद्वारैस्
त्रिभिर्
नरः । आचरत्य् आत्मनः
श्रेयस्, ततो याति
परां गतिम्
।। 16.22 ।। यः शास्त्रविधिम्
उत्सृज्य,
वर्तते कामकारतः
। न स सिद्धिम् अवाप्नोति,
न सुखं न परां गतिम्
।। 16.23 ।। तस्माच् छास्त्रं
प्रमाणं ते, कार्याकार्यव्यवस्थितौ
ज्ञात्वा शास्त्रविधानोक्तं,
कर्म कर्तुम्
इहार्हसि
।। 16.24 ।। ।। ऊँ तत्सदिति दैवासुरसंपद्विभागयोगो
नाम षोडशोऽध्यायः
।। अथ सप्तदशोऽध्यायः 17. श्रद्धात्रयविभागयोगः अर्जुन
उवाच – ये शास्त्रविधिम्
उत्सृज्य,
यजन्ते श्रद्धयान्विताः
। तेषां निष्ठा तु का
कृष्ण, सत्त्वम्
आहो रजस्
तमः ।। 17.1 ।। श्रीभगवानुवाच – त्रिविधा भवति
श्रद्धा, देहिनां
सा स्वभावजा
। सात्त्विकी राजसी चैव,
तामसी चेति
तां शृणु
।। 17.2 ।। सत्त्वानुरूपा सर्वस्य,
श्रद्धा भवति
भारत । श्रद्धामयोऽयं पुरुषो,
यो यच्छ्रद्धः
स एव सः
।। 17.3 ।। यजन्ते सात्त्विका
देवान्, यक्षरक्षांसि
राजसाः । प्रेतान् भूतगणांश्
चान्ये, यजन्ते तामसा जनाः
।। 17.4 ।। अशास्त्रविहितं घोरं, तप्यन्ते
ये तपो जनाः
। दम्भाहंकारसंयुक्ताः, कामरागबलान्विताः
।। 17.5 ।। कर्षयन्तः शरीरस्थं,
भूतग्रामम्
अचेतसः । मां
चैवान्तःशरीरस्थं,
तान् विद्धय्
आसुरनिश्चयान्
।। 17.6 ।। आहारस् त्व्
अपि सर्वस्य,
त्रिविधो
भवति प्रियः
। यज्ञस् तपस्
तथा दानं, तेषां भेदम्
इमं शृणु
।। 17.7 ।। आयुःसत्त्वबलारोग्य -सुखप्रीतिविवर्धनाः
। रस्याः स्निग्धाः
स्थिरा हृद्या, आहाराः सात्त्विकप्रियाः ।।
17.8 ।। कट्वम्ललवणात्युष्ण-तीक्ष्णरूक्षविदाहिनः । आहारा राजसस्येष्टा,
दुःखशोकामयप्रदाः
।। 17. 9 ।। यातयामं गतरसं,
पूति पर्युषितं
च यत् उच्छिष्टम् अपि चामेध्यं,
भोजनं तामसप्रियम्
।। 17.10 ।। अफलाकाङ्क्षिभिर् यज्ञो,
विधिदृष्टो
य इज्यते
। यष्टव्यम् एवेति
मनः, समाधाय
स सात्त्विकः
।। 17.11 ।। अभिसन्धाय तु फलं, दम्भार्थम्
अपि चैव यत् । इज्यते भरतश्रेष्ठ,
तं यज्ञं
विद्धि राजसम् ।।
17.12 ।। विधिहीनम् असृष्टान्नं,
मन्त्रहीनम्
अदक्षिणम्
। श्रद्धाविरहितं यज्ञं,
तामसं परिचक्षते
।। 17.13 ।। देवद्विजगुरुप्राज्ञ-, पूजनं
शौचम् आर्जवम् । ब्रह्मचर्यम् अहिंसा च, शारीरं तप उच्यते ।।
17.14 ।। अनुद्वेगकरं वाक्यं,
सत्यं प्रियहितं
च यत् । स्वाध्यायाभ्यसनं चैव, वाङ्मयं
तप उच्यते
।। 17.15 ।। मनःप्रसादः सौम्यत्वं,
मौनम् आत्मविनिग्रहः
। भावसंशुद्धिर् इत्य एतत्, तपो मानसम् उच्यते ।।
17.16 ।। श्रद्धया परया तप्तं, तपस्
तत् त्रिविधं
नरैः । अफलाकाङ्क्षिभिर् युक्तैः,
सात्त्विकं
परिचक्षते ।।
17.17 ।। सत्कारमानपूजार्थं तपो दम्भेन
चैव यत्
। क्रियते तद्
इह प्रोक्तं,
राजसं चलम् अध्रुवम्
।। 17.18 ।। मूढग्राहेणात्मनो यत्, पीड्या क्रियते तपः । परस्योत्सादनार्थं वा,
तत् तामसम्
उदाहृतम्
।। 17.19 ।। दातव्यम् इति यद् दानं, दीयतेऽनुपकारिणे
। देशे काले च पात्रे
च, तद् दानं
सात्त्विकं
स्मृतम्
।। 17.20 ।। यत् तु प्रत्युपकारार्थं,
फलम् उद्दिश्य
वा पुनः । दीयते च परिक्लिष्टं,
तद् दानं
राजसं स्मृतम् ।। 17.21 ।। अदेशकाले यद् दानम्,
अपात्रेभ्यश्च
दीयते । असत्कृतम् अवज्ञातं,
तत् तामसम्
उदाहृतम्
।। 17.22 ।। ऊँ तत् सद् इति
निर्देशो,
ब्रह्मणस्
त्रिविधः
स्मृतः ब्राह्मणास् तेन वेदाश्च, यज्ञाश्च विहिताः पुरा ।। 17.23 ।। तस्माद् ओम् इत्य् उदाहृत्य,
यज्ञदानतपःक्रियाः
। प्रवर्तन्ते विधानोक्ताः,
सततं ब्रह्मवादिनाम्
।। 17.24 ।। तद् इत्य्
अनभिसंधाय,
फलं यज्ञतपःक्रियाः
। दान क्रियाश्च
विविधाः, क्रियन्ते
मोक्षकाङ्क्षिभिः ।।
17.25 ।। सद्भावे साधुभावे
च, सद् इत्य्
एतत् प्रयुज्यते
। प्रशस्ते कर्मणि
तथा, सच्छब्दः
पार्थ युज्यते
।। 17.26 ।। यज्ञे तपसि
दाने च, स्थितिः
सद् इति चोच्यते
। कर्म चैव
तदर्थीयं,
सद् इत्य्
एवाभिधीयते
।। 17.27 ।। अश्रद्धया हुतं दत्तं, तपस्
तप्तं कृतं च यत्
। असद् इत्य्
उच्यते
पार्थ, न च तत् प्रेत्य नो इह ।। 17.28
।। ।। ऊँ तत्सदिति श्रद्धात्रयविभागयोगो
नाम सप्तदशोऽध्यायः
।। अथ अष्टादशोऽध्यायः 18. निरहंकारयोगः अर्जुन
उवाच – संन्यासस्य महाबाहो,
तत्त्वम्
इच्छामि वेदितुम्
। त्यागस्य च
हृषीकेश, पृथक्
केशिनिषूदन
।। 18.1 ।। श्रीभगवानुवाच – काम्यानां कर्मणां
न्यासं, संन्यासं कवयो विदुः
। सर्वकर्मफलत्यागं, प्राहुस्
त्यागं विचक्षणाः
।। 18.2 ।। त्याज्यं दोषवद्
इत्य् एके, कर्म प्राहुर् मनीषिणः । यज्ञदानतपःकर्म, न त्याज्यम्
इति चापरे
।। 18.3 ।। निश्चयं शृणु मे तत्र,
त्यागे भरतसत्तम
। त्यागो
हि पुरुषव्याघ्र,
त्रिविधः
संप्रकीर्तितः
।। 18.4 ।। यज्ञदानतपःकर्म, न त्याज्यं
कार्यम् एव तत् । यज्ञो दानं तपश्चैव, पावनानि मनीषिणाम् ।।
18.5।। एतान्य् अपि तु
कर्माणि, सङ्गं त्यक्तवा
फलानि च कर्तव्यानीति मे
पार्थ, निश्चितं
मतम् उत्तमम्
।। 18.6 ।। नियतस्य तु संन्यासः, कर्मणो
नोपपद्यते
। मोहात् तस्य परित्यागस्,
तामसः परिकीर्तितः
।। 18.7
।। दुःखम् इत्येव
यत् कर्म, कायक्लेशभयात्
त्यजेत्
। स कृत्वा राजसं त्यागं,
नैव त्यागफलं
लभेत् ।।
18.8 ।। कार्यम् इत्येव
यत् कर्म, नियतं क्रियतेऽर्जुन
। सङ्गं त्यक्त्वा
फलं चैव,
स त्यागः सात्त्विको
मतः ।।18.9।। न द्वेष्ट्य्
अकुशलं
कर्म, कुशले
नानुष्ज्जते
। त्यागी
सत्त्वसमाविष्टो,
मेधावी छिन्नसंशयः
।। 18.10 ।। न हि देहभृता
शक्यं, त्यक्तुं कर्माण्य्
अशेषतः । यस् तु कर्मफलत्यागी,
स त्यागीत्य्
अभिधीयते
।। 18.11
।। अनिष्टम् इष्टं
मिश्रं च, त्रिविधं कर्मणः फलम् । भवत्य् अत्यागिनां
प्रेत्य,
न तु संन्यासिनां
क्वचित् ।।
18.12 ।। पञ्चैतानि महाबाहो,
कारणानि निबोध मे
। सांख्ये कृतान्ते
प्रोक्तानि,
सिद्धये सर्वकर्मणाम्
।। 18.13
।। अधिष्ठानं तथा
कर्ता, करणं
च पृथग्विधम्
। विविधाश्च पृथक्चेष्टा,
दैवं चैवात्र
पञ्चमम्
।। 18. 14 ।। शरीरवाङ्मनोभिर् यत्,
कर्म प्रारभते
नरः । न्याय्यं वा विपरीतं वा, पञ्चैते
तस्य हेतवः
।। 18.15 ।। तत्रैवं सति कर्तारम्, आत्मानं केवलं तु
यः । पश्यत्य् अकृतबुद्धित्वान्,
न स पश्यति
दुर्मतिः
।। 18.16 ।। यस्य नाहंकृतो
भावो, बुद्धिर्
यस्य न लिप्यते । हत्वापि स इमाल्
लोकान्, न हन्ति न निबध्यते ।।
18.17 ।। ज्ञानं ज्ञेयं
परिज्ञाता,
त्रिविधा
कर्मचोदना
। करणं कर्म कर्तेति,
त्रिविधः
कर्मसंग्रहः
।। 18.18 ।। ज्ञानं कर्म च
कर्ता च, त्रिधैव
गुणभेदतः
। प्रोच्यते गुणसंख्याने,
यथावच् छ्रणु तान्य्
अपि ।। 18.19 ।। सर्वभूतेषु येनैकं,
भावम् अव्ययम् ईक्षते । अविभक्तं विभक्तेषु,
तज् ज्ञानं
विद्धि सात्त्विकम
।। 18. 20 ।। पृथक्त्वेन तु यज् ज्ञानं,
नानाभावान्
पृथग्विधान् वेत्ति सर्वेषु
भूतेषु, तज् ज्ञानं
विद्धि राजसम् ।।
18.21 ।। यत् तु कृत्स्नवद्
एकस्मिन्,
कार्ये सक्तम् अहैतुकम् अतत्त्वार्थवद् अल्पं
च, तत् तामसम्
उदाहृतम्
।। 18.22 ।। नियतं सङ्गरहितम्,
अरागद्वेषतः
कृतम् । अफलप्रेप्सुना कर्म, यत्
तत् सात्त्विकम्
उच्यते
।। 18.23 ।। यत् तु कामेप्सुना
कर्म, साहंकारेण
वा पुनः । क्रियते बहुलायासं,
तद् राजसम्
उदाहृतम्
।। 18.24 ।। अनुबन्धं क्षयं
हिंसाम्, अनवेक्ष्य
च पौरुषम्
। मोहाद् आरभ्यते
कर्म, यत्
तत् तामसम्
उच्यते
।। 18.25 ।। मुक्तसङ्गोऽनहंवादी, धृत्युत्साहसमन्वितः
। सिद्धयसिद्धयोर् निर्विकारः,
कर्ता सात्त्विकः
उच्यते
।। 18.26 ।। रागी
कर्मफलप्रेप्सुर्,
लुब्धो हिंसात्मकोऽशुचिः
। हर्षशोकान्वितः कर्ता, राजसः
परिकीर्तितः
।। 18.27 ।। अयुक्तः प्राकृतः
स्तब्धः, शठो नैष्कृतिकोऽलसः
। विषादी
दीर्घसूत्री
च, कर्ता तामस उच्यते ।।
18.28 ।। बुद्धेर् भेदं धृतेश् चैव, गुणतस्
त्रिविधं
शृणु । प्रोच्यमानम् अशेषेण,
पृथक्त्वेन
धनञ्जय
।। 18.29 ।। प्रवृत्तिं च निवृत्तिं
च, कार्याकार्ये
भयाभये । बन्धं मोक्षं
च या वेत्ति,
बुद्धिः
सा पार्थ सात्त्विकी
।। 18.30
।। यया धर्मम्
अधर्मं च, कार्यं चाकार्यम्
एव च । अयथावत् प्रजानाति,
बुद्धिः
सा पार्थ
तामसी ।। 18.31 ।। अधर्मं धर्मम् इति या, मन्यते
तमसावृता
। सर्वार्थान् विपरीतान्श्च,
बुद्धि: सा
पार्थ तामसी ।। 18.32 ।। धृत्या यया धारयते, मनःप्राणेन्द्रियक्रियाः
। योगेनाव्यभिचारिण्या, धृतिः
सा पार्थ सात्त्विकी
।। 18.33 ।। यया तु धर्मकामार्थान्,
धृत्या धारयतेऽर्जुन
। प्रसङ्गेन फलाकाङ्क्षी,
धृतिः सा
पार्थ राजसी
।। 18.34 ।। यया स्वप्नं
भयं शोकं,
विषादं मदम् एव
च । न विमुञ्चति
दुर्मेधा,
धृतिः सा
पार्थ तामसी
।। 18.35 ।। सुखं त्व् इदानीं त्रिविधं, शृणु मे
भरतर्षभ
। अभ्यासाद् रमते यत्र,
दुःखान्तं
च निगच्छति
।। 18.36 ।। यत् तद् अग्रे विषम्
इव, परिणामेऽमृतोपमम्
। तत्
सुखं सात्त्विकं
प्रोक्तम्,
आत्मबुद्धिप्रसादजम्
।। 18.37
।। विषयेन्द्रियसंयोगाद्, यत् तद् अग्रेऽमृतोपमम्
। परिणामे विषम इव,
तत् सुखं राजसं स्मृतम्
।। 18.38 ।। यद्
अग्रे चानुबन्धे
च, सुखं मोहनम् आत्मनः । निद्रालस्यप्रमादोत्थं, तत् तामसम्
उदाहृतम्
।। 18.39 ।। न तद् अस्ति पृथिव्यां
वा, दिवि
देवेषु वा पुनः । सत्त्वं प्रकृतिजैर्
मुक्तं,
यद् एभिः स्यात् त्रिभिर् गुणैः ।। 18.40 ।। ब्राह्मणक्षत्रियविशां, शूद्राणां
च परंतप । कर्माणि प्रविभक्तानि,
स्वभावप्रभवैर्
गुणैः ।।
18.41 ।। शमो दमस् तपः शौचं,
क्षान्तिर्
आर्जवम् एव च । ज्ञानं विज्ञानम्
आस्तिक्यं,
ब्रह्मकर्म
स्वभावजम्
।। 18.42 ।। शौर्यं तेजो धृतिर् दाक्ष्यं, युद्धे चाप्य् अपलायनम्
।। दानम् ईश्वरभावश्च,
क्षात्रं
कर्म स्वभावजम्
।। 18.43 ।। कृषिगौरक्ष्यवाणिज्यं, वैश्यकर्म
स्वभावजम्
। परिचर्यात्मकं कर्म, शूद्रस्यापि
स्वभावजम्
।। 18.44 ।। स्वे स्वे कर्मण्य् अभिरतः, संसिद्धिं
लभते नरः
। स्वकर्मनिरतः सिद्धिं,
यथा विन्दति
तच् छृणु
।। 18.45 ।। यतः प्रवृत्तिर्
भूतानां, येन सर्वम्
इदं ततम्
। स्वकर्मणा तम् अभ्यर्च्य,
सिद्धिं विन्दति मानवः ।। 18.46
।। श्रेयान् स्वधर्मो
विगुणः, परधर्मात्
स्वनुष्ठितात्
। स्वभावनियतं कर्म, कुर्वन्
नाप्नोति
किल्बिषम्
।। 18.47 ।। सहजं कर्म कौन्तेय,
सदोषम्
अपि न त्यजेत्
। सर्वारम्भा हि दोषेण, धूमेनाग्निर्
इवावृताः
।। 18.48 ।। असक्तबुद्धिः सर्वत्र, जितात्मा विगतस्पृहः
। नैष्कर्म्यसिद्धिं परमां,
संन्यासेनाधिगच्छति
।। 18.49 ।। सिद्धिं प्राप्तो
यथा ब्रह्म, तथाप्नोति
निबोध मे । समासेनैव कौन्तेय,
निष्ठा ज्ञानस्य
या परा ।।
18.50 ।। बुद्धया विशुद्धया
युक्तो, धृत्यामानं
नियम्य च
। शब्दादीन् विषयांस्
त्यक्तवा,
रागद्वेषौ
व्युद्स्य
च ।। 18.51
।। विविक्तसेवी लघ्वाशी,
यतवाक्कायमानसः
। ध्यानयोगपरो नित्यं,
वैराग्यं
समुपाश्रितः
।। 18.52 ।। अहंकारं बलं दर्पं, कामं
क्रोधं परिग्रहम्
। विमुच्य निर्ममः
शान्तो, ब्रह्मभूयाय
कल्पते
।। 18.53 ।। ब्रह्मभूतः प्रसन्नात्मा,
न शोचति न काङ्क्षति
। समः सर्वेषु
भूतेषु, मद्भक्तिं
लभते पराम्
।। 18.54 ।। भक्तया माम् अभिजानाति,
यावान् यश् चास्मि
तत्त्वतः
। ततो माम् तत्त्वतो ज्ञात्वा, विशते तदनन्तरम्
।। 18.55 ।। सर्वकर्माण्य् अपि सदा, कुर्वाणो मद्वयपाश्रयः
। मत्प्रसादाद् अवाप्नोति,
शाश्वतं पदम् अव्ययम्
।। 18.56 ।। चेतसा सर्वकर्माणि,
मयि संन्यस्य
मत्परः । बुद्धियोगम् उपाश्रित्य,
मच्चित्तः
सततं भव
।। 18.57 ।। मच्चित्तः सर्वदुर्गाणि,
मत्प्रसादात्
तरिष्यसि
। अथ चेत् त्वम् अहंकारान्,
न श्रोष्यसि
विनङ्क्षयसि
।। 18.58
।। यद्
अहंकारम्
आश्रित्य,
न योत्स्य
इति मन्यसे
। मिथ्यैष व्यवसायस्
ते, प्रकृतिस्
त्वां नियोक्ष्यति
।। 18.59
।। स्वभावजेन कौन्तेय,
निबद्धः स्वेन कर्मणा
। कर्तुं नेच्छसि
यन् मोहात्,
करिष्यस्य्
अवशोऽपि
तत् ।। 18.60 ।। ईश्वरः सर्वभूतानां,
हृद्देशेऽर्जुन
तिष्ठति
। भ्रामयन् सर्वभूतानि,
यन्त्ररूढानि
मायया ।।
18.61 तम् एव शरणं गच्छ,
सर्वभावेन
भारत । तत्प्रसादात् परां शान्तिं, स्थानं प्राप्स्यसि
शाश्वतम्
।। 18.62 ।। इति
ते ज्ञानम्
आख्यातं, गुह्याद् गुह्यतरं मया । विमृश्यैतद् अशेषेण,
यथेच्छसि
तथा कुरु ।। 18.63
।। सर्वगुह्यतमं भूयः, शृणु
मे परमं
वचः । इष्टोऽसि मे दृढम् इति, ततो वक्ष्यामि
ते हितम्
।। 18.64 ।। मन्मना भव मद्भक्तो, मद्याजी
मां नमस्कुरु
। माम् एवैष्यसि
सत्यं ते, प्रतिजाने
प्रियोऽसि
मे ।। 18.65 ।। सर्वधर्मान् परित्यज्य,
मामेकं शरणं व्रज
। अहं
त्वा सर्वपापेभ्यो,
मोक्षयिष्यामि
मा शुचः
।। 18.66 ।। इदं ते नातपस्काय,
ना भक्ताय
कदाचन । न चाशुश्रूषवे
वाच्यं, न
च मां योऽभ्यसूयति
।। 18.67 ।। य इमं परमं
गुह्यं, मद्भक्तेष्व्
अभिधास्यति
। भक्तिं मयि परां कृत्वा,
माम् एवैष्यत्य्
असंशयः
।। 18.68 ।। न च तस्मान् मनुष्येषु,, कश्चिन्
मे प्रियकृत्तमः
। भविता न च मे
तस्माद्, अन्यः प्रियतरो
भुवि ।। 18.69
।। अध्येष्यते च य इमं,
धर्म्यं संवादम् आवयोः । ज्ञानयज्ञेन तेनाहम्,
इष्टः स्याम्
इति मे मतिः ।। 18.70
।। श्रद्धावान् अनसूयश्च,
शृणुयाद्
अपि यो नरः । सोऽपि मुक्तः
शुभाल् लोकान्, प्राप्नुयात्
पुण्यकर्मणाम्
।। 18.71 ।। कच्चिद् एतच् छुतं
पार्थ, त्वयैकाग्रेण
चेतसा । कच्चिद् अज्ञानसंमोहः,
प्रनष्टस्
ते धनञ्जय
।। 18.72 ।। अर्जुन
उवाच – नष्टो मोहः स्मृतिर् लब्धा, त्वत्प्रसादान्
मयाऽच्युत
। स्थितोऽस्मि गतसंदेहः,
करिष्ये वचनं तव
।। 18.73 ।। सञ्जय उवाच –
इत्य् अहं वासुदेवस्य,
पार्थस्य
च महात्मनः
। संवादम् इममि अश्रौषम्, अद्भुतम् रोमहर्षणम्
।। 18.74 ।। व्यासप्रसादाच् छुतवान्,
एतद् गुह्यम्
अहं परम्
। योगं योगेश्वरात्
कृष्णात्,
साक्षात् कथयतः
स्वयम् ।।
18.75 ।। राजन् संस्मृत्य
संस्मृत्य,
संवादम् इमम् अद्भुतम्
। केशवार्जुनयोः पुण्यं,
हृष्यामि
च मुहुर् मुहुः ।। 18. 76
।। तच् च संस्मृत्य
संस्मृत्य,
रूपम् अत्यद्भुतं
हरेः । विस्मयो मे महान् राजन्,
हृष्यामि
च पुनः पुनः
।। 18.77 ।। यत्र योगेश्वरः
कृष्णो, यत्र पार्थो
धनुर्धरः
। तत्र श्रीर्
विजयो भूतिर्, ध्रुवा नीतिर् मतिर् मम
।। 18.78 ।। ।। ऊँ तत्सदिति
श्रीमद्भगवद्गीतासूपनिषत्सु
ब्रह्मविद्यायां
योगशास्त्रे श्रीकृष्णार्जुनसंवादे निरहंकारयोगो
नाम अष्टादशोऽध्यायः
।। हरि: ऊँ तत्सत् हरि: ऊँ तत्सत् हरि: ऊँ तत्सत् श्रीकृष्णार्पणं अस्तु
शुभं भूयात् ऊँ शान्तिः शान्तिः शान्तिः ऊँ पूर्णमदः
पूर्णमिदं,
पूर्णात्
पूर्णमुदच्यते पूर्णस्य पूर्णमादाय,
पूर्णमेवाऽवशिष्यते ऊँ शान्तिः शान्तिः शान्तिः |